Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ३९५ अन्धकारमतानिष्टां विस्तारितवन्तौ । ' २२८४ । अतो हलादेर्लघोः | ७|२७| इति वृद्धिविकल्पः ॥
१२७३ - सौर्याss
व्यकारिष्टास्त्रे राक्षस-लक्ष्मणौ ॥
ते चोपागमता नाशं समासाद्य परस्परम् ॥ ९२ ॥ सौर्यग्ये इत्यादि - राक्षसः सौर्यमस्त्रं व्यकारीत् विक्षिप्तवान् । '१५०३ ॥ विक्षेपे ।' लक्ष्मणो ऽप्याग्नेयं इत्येवं तौ व्यकारिष्टाम् । ते चास्त्रे परस्परमासाद्य प्राप्य नाशमुपागमताम् | लुदित्वादङ् ॥
१२७४-अबिभ्रजत् ततः शस्त्रमैषीकं राक्षसो रणे, ॥
तद॑ध्यध्व सदसाद्य माहेन्द्रं लक्ष्मणेरितम् ॥ ९३ ॥ अबिभ्रजदित्यादि - ततोऽनन्तरं रावणिः ऐषीकमस्त्रम् । इषीकाया इदम् । तत्सर्वस्रोतस्सु प्रविशत् जीवितमपहरति । रणे अबिभ्रजत् दीपितवान् । '२५६५ । भ्राज-भास - | ७|४ | ३ |' इत्यादिना उपधाया हस्वत्वम् । तदपि अध्वसत् ध्वस्तम् । ध्वसिद्युतादिः । लक्ष्मणेरितं लक्ष्मणप्रेरितं माहेन्द्रमस्त्रमासाद्य तद्गतिरोधं कृत्वा ध्वंसयति स्म ॥ १२७५–ततः सौमित्रर॑स्मार्षीददेविष्ट च दुर्जयम् ॥
ब्रह्मऽस्त्रं, तेन मूर्धानम॑दध्वंसन् नर - द्विषः ॥ ९४ ॥
तत इत्यादि - अनन्तरं सौमित्रिः दुर्जयं अनभिभवनीयं ब्रह्मास्त्रमस्माषत् स्मरति स्म । ‘२२९७। सिचि वृद्धिः - १७|२|१| तच्च स्मरणादुपस्थितं अदेविष्ट द्योतते स्म । '५३३ | ३४ | तेवृ देव देवने' इति अनुदात्तेत् । द्योतने द्रष्टव्यः । देवनस्यानेकार्थत्वात् । तेन च ब्रह्मास्त्रेण प्रयोजककर्त्रा नरद्विषो राक्षसस्य मूर्धानमदध्वंसत् पातितवान् सौमित्रिः । हेतुमण्ण्यन्ताच्चङि रूपम् ॥ १२७६ - ततो ऽक्रन्दीद् दशग्रीवस् तमा॑शिश्वसर्दिन्द्रजित् ॥ निरयासीच् च संक्रुद्धः, प्रार्चिचच् च स्वयम्भुवम्. ९५
1
"
तत इत्यादि - ततः सुतमरणानन्तरं दशग्रीवः अक्रन्दीत् रोदिति स्म । तं च क्रन्दन्तमिन्द्रजिदाशिवसत् आश्वासितवान् । 'मयि जीवति किं वृथा जनवद्रोदिषि ' इति । हेतुमण्ण्यन्तस्य चङि रूपम् । संक्रुद्धश्च निरयासीत् । रावणगृहान्निर्गतः । ' ११२३ । या प्रापणे' । निर्गत्य च स्वगृहे स्वयम्भुवं ब्रह्माणं प्राचिचत् पूजितवान् । '१९४५ अर्च पूजायाम्' इति चुरादिः । ' २३१५ | चङि |६|१|११| अजादिद्विर्वचनम् ॥
१२७७ - अहौषीत् कृष्णवर्त्मानं समयष्टा ऽस्त्र - मण्डलम् ॥
"
"
सो sलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयाऽऽवहम् . ९६ अहौषीदित्यादि - कृष्णवर्त्मानमग्निमहौषीत् । हव्येन प्रीणितवानित्यर्थः ।
1
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514