Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधों' नाम पञ्चदशः सर्गः- ३९९ १२९१-अजिह्वदत् स काकुत्स्थौ,
शेषांश् चा ऽजीजिवत् कपीन् । हनूमानथ ते लङ्का
मग्निना ऽदीदिपन् द्रुतम् ॥ ११० ॥ अजिह्नददित्यादि-एवं च सति हनूमान् काकुत्स्थावजिलदत् हादितवान् । '२७॥ हादी सुखे च' ण्यन्तः । शेषांश्च कपीनजीजिवत् जीवयति स । अथ ते जीविताः सन्तः लङ्का द्रुतमदीदिपन् दीपितवन्तः । '२५६५। भाज1७।४।३।' इत्यादिना हस्वपक्षे रूपम् ॥ १२९२-समनात्सीत् ततः सैन्यममार्जीद् भल्ल-तोमरम्, ॥
अमाक्षीच चा ऽसिपत्राऽऽदीनबभासत् परश्वधान.॥ समनात्सीदित्यादि-ततः सैन्यं समनासीत् सन्नद्धम् । '४४० । नहो धः ।।२।३४॥' इति धत्वम् । हलन्तलक्षणा वृद्धिः । भल्लतोमरममार्जीत् शोधितवान् । मृजेरुदित्वात् पक्षे रूपम् । असिपत्रादीनमार्सीत् । इडभावे रूपम् । उभयत्रापि '६४७३। मृजेवृद्धिः ।।२।११४।' । परश्वधानबभासत् दीपितवान् । '२५६५। भ्राज-भास-७४।३।' इति इस्वपक्षे रूपम् । अभासीञ्चेति पाठान्तरम् । तत्रान्तर्भावितो ण्यर्थः ॥ १२९३-कुम्भकर्ण-सुतौ तत्र समनद्धां महा-बलौ ॥
निकुम्भश चैव कुम्भश् च, प्रापतां तौ प्लवङ्गमान्. । कुम्भकर्णेत्यादि-कुम्भश्चैव निकुम्भश्च कुम्भकर्णसुतौ महाबलौ तत्र सैन्ये समनद्धां सन्नद्धौ । तौ च प्लवङ्गमान प्रापतां प्राप्तवन्तौ । लदित्वादङ् ॥ १२९४-अगोपिष्टां पुरीं लङ्कामगोप्तां रक्षसां बलम् , ॥
अत्याक्तामायुधाऽनीकर्मनेष्टां च क्षयं द्विषः ॥११३॥ अगोपिष्टामित्यादि-लङ्कां च पुरी अगोपिष्टां रक्षितवन्तौ । गुपेरूदित्त्वादिदपक्षे रूपम् । अगौतामितीडभावपक्षे रूपम् । हलन्तलक्षणा वृद्धिः । '२२८१॥ झलो झलि ।।२।२६।' इति सिचो लोपः । आयुधानीकं आयुधसमूहमत्याक्तां त्यक्तवन्तौ विसृष्टवन्तौ । १०५५। त्यज हानौ' । पूर्ववद्वृद्धिः सिचो लोपः। द्विषः शत्रून् क्षयमनैष्टां नीतवन्तौ । '२२९७। सिचि वृद्धिः-७॥२॥॥॥ १२९५-अकोकूयिष्ट तत् सैन्यं, प्रपलायिष्ट चाऽऽकुलम्,॥ ___ अच्युतच् च क्षतं रक्तं, हतं चा ऽध्यशयिष्ट गाम् ॥
अकोकूयिष्टेत्यादि-तत् सैन्यं प्लवङ्गमानां भयादकोकूयिष्ट भृशं शब्द कृतवत् । '१०१७। कुक शब्दे' इत्यस्मात् यड्यभ्यासस्य २६४१॥ न कवतेयकि i७४।६३।' इति कुरुश्रुत्वप्रतिषेधः । ततो यजन्तालछ । प्रपलायिष्ट पलायते Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514