Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 448
________________ तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४१५ आस्यन्नित्यादि-प्लवङ्गमा अपि वृक्षानास्यन् क्षिप्तवन्तः । १२०५। असु क्षेपणे' । तथा भूधरैः पर्वतैरधुन्वन् हतवन्तः । 'अधूर्वन्' इति पाठान्तरम् । तत्र '२२६५। उपधायां च ।।२।२८।' इति दीर्घः । क्रोधान्मुष्टिभिरहिंसन् ताडितवन्तः । दशनैर्दन्तैरदशन् खादितवन्तः । '२३९६। दंश-सञ्ज-स्वा शपि ।६।४।२५।' इत्यनुनासिकलोपः ॥ १३६०-प्रादुन्वन् जानुभिस् तूर्णमैतुदंस् तल-कूपरैः, ॥ प्राहिण्वन्नरि-मुक्तानि शस्त्राणि विविधानि च. ॥१४॥ प्रादुन्वनित्यादि-जानुभिस्तूर्णं प्रादुन्वन् पीडितवन्तः १३३६। टुदु उपतापे ।' स्वादिः । तलकूपरैः हस्ततलैः प्रकोष्ठैश्वातुदन् व्यथितवन्तः । अरिभिर्मुक्तानि विविधानि यानि शस्त्राणि तानि प्राहिण्वन् प्रहितवन्तः ॥ १३६१-अतृणेट् शक्र-जिच् छत्रूनभ्राम्यच् च समन्ततः, ॥ अध्वनच च महा-घोरं, न च कंचन नाऽदनोत. १५ अतृणेडित्यादि-ततः शक्रजिदिन्द्र जित् शत्रूनतृणेद हिंसितवान् । तृहेः भम् । तस्यं '२५४५। तृण ह इम् ।७।३।९।' हलङ्यादिलोपः । हकारस्य ढत्वजश्त्वचत्वानि । समन्ततश्चाभ्राम्यत् भ्रान्तवान् । महाघोरं च भीषणं स्वनं अवनत् नादितवान् । न च कंचन नादुनोत् कंचिदपि न नोपतापितवान् अपि तु सर्वानपि पीडितवानित्यर्थः ॥ १३६२-नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त बिभ्रतम् ॥ नैनचेतन्नस्यन्तं, हतास् तेना ऽविदुर् द्विषः ॥१६॥ नाजानन्नित्यादि-धनुषि शरं सन्दधानमारोपयन्तमिन्द्रजितं नाजानन् न ज्ञातवन्तः । धनुर्बिभ्रतं नैक्षन्त धनुर्धारयन्तं न दृष्टवन्तः । इषून शरानस्यन्तं क्षिप्यन्तं नाचेतन् हस्तलाघवात् न ज्ञातवन्तः । ३९। चिती संज्ञाने' । १३४॥ ङमो हस्वात्-1८।३।३२।' इति डमुट । तेन हताः सन्तो द्विषः अविदुः ज्ञातवन्तः पूर्वोक्तम् । '२२२६। सिजभ्यस्त-विदिभ्यश्च ।३।४।१०९।' इति झेर्जुस् ॥ १३६३-अशृण्वन्नन्यतः शब्दं, प्रपलायन्त चा ऽन्यतः, ॥ आक्रन्दमन्यतोऽकुर्वस् तेनाऽहन्यन्त चाऽन्यतः. १७ अशृण्वन्नित्यादि-अन्यतः अन्यस्मिन् प्रदेशे केचिद् द्विषः शब्दमण्वन् । '२३८६। श्रुवः शृन्च ।३।११७४।' इति शृभावः श्रुप्रत्ययश्च । अन्यत्र स्थिताः प्रपलायन्त पलायिताः । अन्यतो ऽन्यत्र प्रदेशे स्थिताः आक्रन्दं अकु. र्वन रोदनं कृतवन्तः । अन्यतो ऽन्यत्र तेनेन्द्रजिता अहन्यन्त व्यापादिताः । कर्मणि लङ् । सर्वत्राद्यादित्वात्तसिः ॥ १३६४-पालोठन्त, व्यभिद्यन्त, परितो रक्तमस्रवन, ॥ पर्यश्राम्यन्नतृप्यंश् च क्षतास् तेना ऽमियन्त च. १८ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514