Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 417
________________ ३८४ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, १२२५-ऋषभो ऽद्रीदझेप्सीत् , ते तैररिमतर्दिषुः ॥ अस्फूर्जीद्, गिरि-शृङ्गं च व्यस्राक्षीद् गन्धमादनः॥ ऋषभ इत्यादि-ऋषभो नाम कपिरद्रीनुदक्षैप्सीत् उत्क्षिप्तवान् । ते शरमादयस्तैर्वृक्षादिमिररिमतर्दिषुः हतवन्तः । ५९। तर्द हिंसायाम् ।' गन्धमादनो नाम कपिरस्फूर्जीत् वज्रमिव । गिरिशृङ्गं च व्यस्नाक्षीत् विसष्टवान् । सृजिस्खौ. दादिक उदात्तेत् ॥ १२२६-अकूर्दिष्ट, व्यकारीच् च गवाक्षो भू-धरान् बहून्.॥ स तान् नाऽजीगणद् वीरः कुम्भकर्णोऽव्यथिष्ट न. ४५ अर्दिष्टेत्यादि-गवाक्षो नाम कपिः अकूर्दिष्ट क्रीडापूर्वकं चेष्टते स्म । भूधरान् महीधरांश्च व्यकारीत् विक्षिप्तवान् । वीरः कुम्भकर्णस्तान् शरभादीन् नाजीगणत् न गणयामास । अजगणदिति पाठान्तरम् । तत्र चकारेणात्वमप्यनुवर्तते । न चाव्यथिष्ट व्यथितोऽभूत् ॥ १२२७-अमन्थीच् च पराऽनीकर्मप्लोष्ट च निरङ्कुशः, ॥ निहन्तुं चाऽत्वरिष्टाऽरीनजक्षीच चाऽङ्कमागतान्.॥ अमन्थीदित्यादि-परानीकं शत्रुसैन्यममन्थीव क्षोभितवान् 'मन्थ विलो. डने।' निरङ्कुशश्चाप्रतिहतशक्तिः अप्लोष्ट भ्रान्तवान् । १०२६। प्लुङ् गतौ' । अरींश्च वानराविहन्तुमत्वरिष्ट त्वरते स्म । ८३॥ जित्वरा संभ्रमे।' अक्षं च समीपमागतानजक्षीत् भक्षितवान् । ११४५। जक्ष भक्ष-हसनयोः' इति भक्षणे जक्षिः ॥ १२२८-व्यक्रुक्षद् वानराऽनीक, संपलायिष्ट चाऽऽयति, ॥ ___ हस्ताभ्यां नश्यदकाक्षीद्, भीमे चौपाधिताऽऽनने.४७ व्यक्रुक्षदित्यादि-तस्मिन्त्रायत्यागच्छति सति, आयूर्वस्येणः शतरि रूपम्। वानरानीकं व्यक्रुक्षत् विक्रोशति स्म । '२३३३। शल इगुपधादनिटः क्सः। ।३।११४५।' संपलायिष्ट पलायते स्म । तच्च नश्यत्पलायमानं हस्ताभ्यामकाक्षीत् आकृष्टवान् कुम्भकर्णः । 'कृष विलेखने' । '२४०२। अनुदात्तस्य च-1६।१५९।' इत्यम् । हलन्तलक्षणा वृद्धिः । आकृष्टं चातिभीमे ऽतिभयङ्करे विकृते मानने वक्के उपाधित न्यस्तवान् । धान् । '२३८९। स्था वोरिच्च । १।२।१७ ॥ १२२९-रतना ऽचिक्लिदद् भूमि, सैन्यैश् चा ऽतस्तरद्धतैः, ॥ ना ऽतासद् भक्षयन् क्रूरो, ना ऽश्रमद् घ्नन् प्लवङ्गमान्, ॥४८॥ रक्तेनेत्यादि-वानरानीकस्य रकेन भूमिमचिक्लिदत् क्लेदितवान् १३२१॥ किदू भाीभावे। तस्य ण्यन्तस्य चङि रूपम् । सैन्यैश्च हतैर्भूमिमतस्तर छादितShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514