________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ३७७ ११९९ - सन्धान- कारणं तेजो न्यर्गभूत् ते, कृथास् तथा, ॥ यत् त्वं वैराणि कोशं च सह - दण्डमजिग्लप:.' १८
सन्धानेत्यादि - तथा त्वमकृथाः कृतवानसि । '२५४७ | तनादिभ्यस्त - थासोः | २|४|७९ |' इति सिचो लुक् । यथा सन्धानकारणं सन्धानहेतुकं यत्तव तेजः प्रचण्डत्वं तत् न्यगभूत् न्यग्भूतम् । '२३२३| गाति-स्था - | २|४|७७।' इति सिचो लुक् । कुत इत्याह । यत्त्वं वैराणि शत्रुभावान् कोशं च सहदण्डं ससैन्यमजिग्लपः ग्लपितवानसि । ग्लायतेण पुकि 'ग्ला - स्त्रा-वनु-वमां च' इति मिवात् हस्वत्वम् । ग्लपयतेश्चङि रूपम् । यदि हि तेजो भवेत् सर्वे तथावस्थितमेव स्यात् ततश्च तेजसो ऽभावात् कथं सन्धानं द्वयोः परस्परानुपतापात् । यथोक्तं यावन्मात्रमुपकुर्यात् तावन्मात्रमेवास्य प्रत्युपकुर्यात् । तेजो हि सन्धानकारणं तप्तं लोहं तप्तेन लोहेन सन्धत्त इति ॥
१२०० - अक्रुधच् चाऽभ्यधाद् वाक्यं कुम्भकर्ण दशाननः ॥
'किं त्वं माम॑जुगुप्सिष्ठा, नैदिधः स्व-पराक्रमम्. १९
अक्रुधदित्यादि - अथैवमुक्ते दशाननः भक्रुधत् क्रुद्धवान् । पुषादित्वादङ् । क्रुद्धश्च कुम्भकर्णमभ्यधात् अभिहितवान् । '२२२३ । गाति -स्था- १२।४।७७१' इति सिचो लुक् । किमिति एवं मां अजुगुप्सिष्ठाः निन्दितवानसि । स्वविक्रमं नैदिध न वर्धितवानसि । एषधातोर्ण्यन्तस्य चढि स्थानिवद्भावात् '२१७६ | अजादेर्द्वितीयस्य | ६|१|२| ' इति धिशब्दो द्विरुध्यते ॥
१२०१ - मोनिग्रहः सु- नीतानि, मा स्म क्रंस्था न संयुगे, ॥ मौपालब्धाः कृतैर् दोषैर् मा न वाक्षीर् हितं परम् . ' २०
मोजिग्रह इत्यादि - सुनीतानि सुनयान् मा उजिग्रहः मा उद्धाहय । ग्रहेर्ण्यन्तस्य चङि रूपम् । संयुगे युद्धे विषयभूते मा क्रंस्था मोत्साहं न कार्षीः अपि तुत्सहस्व । '३२२० | स्मोत्तरे लड् च | ३|३|१७६ ।' इति चकाराल्लुङ् । ‘२७११। वृत्ति-सर्ग -।१।३|३८|' इत्यादिना क्रमेः सर्गे उत्साहे तङ् । दोषैः अस्मस्कृतैः मोपालब्धाः मोपालभस्व । ' २२८१ । झलो झलि | ८ | २|२६|' इति सिचो लोपः । '२२८०। झषस्तथोर्धो धः | ८|२|४०|' '५२ | झलां जश् झशि |८|४|५३ | ' हितं परं कार्यस्य मा न वाक्षीः मा न वह किन्तु वह । वहेरनिटो हलन्तलक्षणा वृद्धिः । ढत्वकत्वषत्वानि ॥
१२०२ - कुम्भकर्णस् ततो ऽगर्जीद्, भटांश् चा ऽन्यान् न्यवीवृतत्. ॥ उपायंस्त महाऽस्त्राणि, निरगाच् च द्रुतं पुरः ॥ २१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com