SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३७६ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, ३४६०। विभाषा लुङ् लहोः ।।४।५०।' इति इडो गादेशः । न च हितं प्रत्य पस्याः प्रतिपसवानसि । १२४४॥ पद गतौ' । २२८१॥ झलो झलि ।।२।२६।' इति सिचो लोपः। ११९६-मूर्खास् त्वामववञ्चन्त, ये विग्रहमचीकरन्, ॥ . अभाणीन् माल्यवान् युक्तमक्षस्थास् त्वं न तन् मदात् १५ मूर्खा इत्यादि-मूर्खाः सर्व एवैते त्वामववञ्चन्त विप्रलब्धवन्तः। १८३६॥ वञ्चू प्रलम्भने' ण्यन्तस्य २७३९। गृहि-वञ्चि-19३।६९।' इत्यादिना तहि चङि रूपम् । ये विग्रहमचीकरन कारितवन्तो भवन्तम् । एष मातामहो मात्य वान् युक्तमभाणीत् भणितवान् '४७७। भण शब्दे ।। '२२६६। इट इंटि ।।२।२८।' इति सिचो लोपः । तत् त्वं मदानाक्षंस्थाः न सोढवानसि । '४७२। क्षमू सहने।'॥ ११९७-राघवस्या ऽमुषः कान्तामारुतो न चाऽर्पिपः, ॥ मा नाऽनुभूः स्वकान् दोषान् , मा मुहोमा रुषोऽधुना.१६ राघवस्येत्यादि-प्रमादित्वमपि ते ऽस्ति । यतो राघवस्य कान्तां अमुषः खण्डितवानसि । खण्डनं चास्या इदं या वियोजनम् । 'मुस खण्डने ।' पुषादित्वाद पुषादयश्च गणान्ता गृहीताः । आप्तैर्विभीषणादिमिरुतो न चार्पिपः नार्पितवानसि कान्ताम् । अर्तेौँ '२५७०। अर्ति-ही-७३॥३६॥' इत्यादिना पुगन्तगुणः । चडि '२२४३। द्विवंचने ऽचि ।।१०५९।' इति स्थानिवद्भावात् '२१७६। अजादेर्द्वितीयस्य ।।१।२।' इति पिशब्दो द्विरुच्यते । रेफस्य २४४६॥ न न्द्राः-६॥१॥३॥' इति प्रतिषेधः । तदधुना स्वकानात्मीयान्दोषान् दुश्चरितानि मा नानुभूः, अपि त्वनुभव । '२२१९। माडि लुङ ।३।३।१७५।' । '२२२३॥ गाति-स्था-२२१७७।' इति सिचो लुक् । मा मुहः मोहं मा गमः। मा रुषः रोषं मा कार्षीः । मुहिरुषिभ्यां पुषादित्वादछ । ११९८-तस्याऽप्यत्यक्रमीत् कालो, यत् तदाऽहमवादिषम् ॥ अघानिषत रक्षांसि परैः, कोशांस् त्वमव्ययीः. १७ तस्येत्यादि-यत्तदा तस्मिन् कालेऽहमवादिषं अभिहितवानस्मि । 'रामः सन्धीयताम्' इति तस्यापि सन्धेः कालो ऽत्यक्रमीदतिकान्तः । '२२२३। नुक्र. मोरनात्मनेपदनिमित्ते ।।२।२३६।' इतीट् । मान्तत्वाद्वृद्धिप्रतिषेधः । यतः परैः शत्रुभिः रक्षांस्यघानिषत हतानि । चिण्वदावादृद्धिघत्वे । त्वं च कोशमव्ययीः त्यक्तवानसि । लकादाहे तस्यारक्षितत्वात् । २०४२। व्यय वित्तसमुत्सर्गे' इति चुरादौ पव्यते । यदा 'आषाद्वा' इति णिज् नास्ति तदा रूपम् । '२२९९। हयन्त-७।२।५।' इत्यादिना वृद्धिप्रतिषेधः। 'व्यय गतौ' इत्यस्यापि रूपम् । भनेकार्थत्वाखानामुत्सर्जने ऽपि द्रष्टव्यम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy