________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधों' नाम पञ्चदशः सर्गः-३७५ देलुंडीति विकल्पेन परस्मैपदविधानादात्मनेपदम् । राक्षसान् क्षयं विनाशमनै. पीत् नीतवान् ॥ ११९२-न प्रावोचमहं किंचित् प्रियं, यावदजीविषम् , ॥
बन्धुस् त्वमर्चितः स्नेहान् माद्विषो न वधीर मम ११ न प्रावोचमित्यादि-यावदजीविषं यावन्तं कालं जीवितः तावन्तं कालं कस्यचित्प्रियं किंचिन्न प्रावोचं नोक्तवानह मिति तव विदितमेव । किन्तु बन्धुस्त्वं स्नेहादर्चितः सन् मम संबन्धिनो द्विषः शत्रून् मा न वधीः मा न मारय किन्तु मारयेति । माङि लुङ् । सर्वलकारापवादः। प्रावोचमिति २४५४॥ वच उम् ॥२२ ॥ ११९३-वीर्य मा न ददर्शस् त्वं,
मा न त्रास्थाः क्षतां पुरम्, ॥ तवा ऽद्राक्षम वयं वीर्य,
त्वमजैषीः पुरा सुरान् ॥ १२ ॥ वीर्यमित्यादि-वं वीर्य मा न ददर्शः किन्तु दर्शय । ण्यन्तस्य चडि रूपम् । क्षतां परैरवसादितां पुरं मा न त्रास्थाः किन्तु बायस्व । १०३४॥ त्रै पालने' । न च त्वमशक्तः यतस्तव वीर्यमद्राक्ष्म दृष्टवन्तो वयम् । २४०७१ न दृशः ।३।११४७।' इति क्सादेशो न भवति । '२२६९। इरितो वा ।३।१०५७।' इति विकल्पेनाविधानात्तदभावपक्षे रूपम् । पुरा पूर्व त्वं सुरान् देवानजैषीः जितवानसि ॥ ११९४-अवोचत् कुम्भकर्णस् तं, 'वयं मन्त्रेऽभ्यधाम यत् ॥
___ न त्वं सर्वं तदोषी:, फलं तस्यैदमागमत्. ॥१३॥ f. अवोचदित्यादि-इत्युक्तवन्तं तं रावणं कुम्भकर्णो ऽवोचत् उक्तवान् । मन्ने मन्त्रणसमये 'क्रियासमारम्भगतोऽभ्युपाय' इत्यादिना यद्वयमभ्यधाम अभिहितवन्तः। धाधातोः '२२२३। गाति-स्था-२।४७७।' इति सिचो लुक् । तत्सर्वं त्वं नाश्रौषीः न श्रुतवानसि । तस्याश्रवणस्येदं फलं विनाशरूपमागमत् आगतम् । गमे दित्त्वाद ॥ ११९५-प्राज्ञ-वाक्यान्यवामस्था, मूर्ख-वाक्येष्ववाऽस्थिथाः॥
अध्यगीष्ठाश् च शास्त्राणि, प्रत्यपरथा हितं न च १४ प्राक्षवाक्यानीत्यादि-प्राज्ञानां विभीषणादीनां वाक्यान्यवामस्थाः अव. ज्ञातवानसि । '१२५२। मन ज्ञाने ।' मूर्खवाक्येषु प्रहस्तादिवाक्येषु अवास्थिथाः अवस्थितोऽसि । '२६८९। समवप्रविभ्यः स्थः । १।३।२२।' इति तङ् । '२३८९। स्थाध्वोरिच ।।२।१७।' त्वं च शास्त्राण्यध्यगीष्ठा अधीतवानसि । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com