________________
३७४ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
-२।३।६९।' इति षष्ठीप्रतिषेधः । स कुम्भकर्णः श्रुत्वा अनासीत् नातवान् । '२३७७। यम-रम-1।२।७३।' इत्यादिना सगिटौ । ब्यलिपत् समालिप्तवान् । २४१४। लिपिसिचि-३।१५३।' इत्यङ् । मांसमप्सासीत् ११२९। प्सा भक्षणे।' वारुणीमपात् पीतवान् । '२२२३। गाति-स्था-२४७७' इति सिचो लुक् ॥ ११८८-न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतत् गृहात्. ॥
राजा यान्तं तमंद्राक्षीदुदस्थाच् चैपासनात्. ॥७॥ न्यवसिष्टेत्यादि-ततो रावणं द्रष्टुं न्यवसिष्ट पूर्वनिवसितं वसनं त्यक्त्वा अन्यद्वस्त्रं परिदधाति म । गृहात् स्वस्मात्प्रावृतत्प्रवृत्तः । '२३४५। धुन्यो लुडि १॥३९॥' इति परस्मैपदम् । '२३४३। पुषादि-३।१०५५।' इत्यादिना भङ् । तमायान्तं राजाद्राक्षीत् दृष्टवान् । '२४०५। सृजिदृशोः-।६।१५४॥' इत्यम् हलन्तलक्षणा वृद्धिः । आसनाच ईषदुदस्थात् उत्थितः । अर्ध्वकर्मकस्वादात्मने पदं न भवति ॥ १९८९-अतुषत् , पीठमासन्ने निरदिक्षच् च काञ्चनम् ॥
अस्मेष्ट कुम्भकर्णोऽल्पमुपाविक्षदथा ऽन्तिके. ॥८॥ अतुषदित्यादि-दृष्ट्वा चातुषत् तुष्टः । पुषादित्वादछ । आसने चारमनः काञ्चनं पीठं निरदिक्षत् आदिष्टवान् । दिशेः '२३३६। शल इगुपधादनिटः क्सः ।३।१।४५।' इति क्सः । अथानन्तरं कुम्भकर्णः अस्मेष्ट ईषद्धसितवान् । स चार्थो येनायमादर इति । भन्तिके चास्य काञ्चनं पीठमध्यास पीठे उपाधिक्षत् उपविष्टः । पूर्ववत् क्सः ॥ १९९०-अवादीन् 'मां किमित्याहो' राज्ञा च प्रत्यवादि सः॥
'माज्ञासीस्त्वं सुखी,रामो यदकार्षीत् स रक्षसाम्.९ अवादीदित्यादि-तत उपविश्य तमवादीदुक्तवान् । '२२६७। वदव्रज -७।२।३।' इत्यादिना वृद्धिः । किमिति कस्मात् कारणात् मामाहः आहूतवान् । २४१८। लिपिसिचि ह्वश्च ।३।१॥५३।' इत्यङ् । २३७२ आतो लोपः ।।६।। राज्ञा च स कुम्भकर्णः प्रत्यवादि प्रत्युक्तः । कर्मणि लुङ् । '२७५८। चिण् भावकर्मणोः ।३।१६६' इति चिण् । '२३२९ चिणो लुक् ।६।४।१०।' इति तलोपः। सुखी त्वं येन रामो रक्षसां यदकार्षीत् तत्त्वं मा ज्ञासीः न ज्ञातवानसि । २३७७। यम-रम-1७२।७३।' इति सगिटौ ॥ ११९१-उदतारीदुदन्वन्तं, पुरं नः परितो ऽरुधत्, ॥
व्यद्योतिष्ट रणे शस्त्रैरनैषीद् राक्षसान क्षयम्. १० उदतारीदित्यादि-स झुदन्वन्तं समुद्रमुदतारीत् उत्तीर्णः । '२२९७। सिचि वृद्धिः-७।२।३।' नो ऽस्माकं पुरं परितः समन्तादरुधत् आवृतवान् ।
'२२६९। इरितो वा ।३।११५७॥' इत्यङ् । रणे शस्त्रैरद्योतिष्ट द्योतितवान् । धुता. Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com