________________
तथा लक्ष्य रूपे कथानके 'कुम्भकर्ण वधो' नाम पश्चदशः सर्गः - ३७३
१९८४ - केशाने लुञ्चिषुस्, तस्य गजान् गा॒त्रेष्व॑चिक्रमन्, ॥ शीतैरभ्यषिच॑स् तोयैरलातैश् चाऽप्य॑दम्भषुः ॥३॥
.
केशानित्यादि - तस्य केशानलुचिषुः उत्पाटितवन्तः । गात्रेषु गजानचिक्रमन् क्रमयन्ति स्म । क्रमेर्मान्तत्वान्मित्संज्ञायां ह्रस्वत्वम् । चङि सन्वद्भावादभ्यासस्य ‘२३१७। सन्यतः ।७।४।७९।' इति इत्वम् । शीतैस्तोयैरभ्यषिचन् सिञ्चन्ति स्म । अत्र सिश्चिरम्युक्षणे वर्तते । तेनोदकस्य करणत्वम् । '२४१८ | लिपिसिचि हृश्च ।३।१।५३।' इत्यङ् । '२२७६ । प्राक् सितादव्यवाबे ऽपि |८|३|६३ | इति चत्वम् । अलातैरङ्गारैश्चाप्यदम्भिषुः दग्धवन्तः । अनेकार्थत्वाद्धातूनाम् ॥ ११८५ - नखैरकर्तिषुस् तीक्ष्णैरदाङ्क्षुर् दशनैस् तथा, ॥
I
शितैरतौत्सुः शूलैश् च, भेरीश् चाऽवीवदन् शुभाः. ४
नखैरित्यादि — तीक्ष्णैर्नखैरकर्तिपुश्छिन्नवन्तः । तथा दशनैस्तीक्ष्णैरदाङ्क्षुः दशन्ति स्म । दंशेरनिटो हलन्तलक्षणा वृद्धिः । '२९४ | वश्व - १८/२/३६१' इत्यादिना षत्वम् । '२९५ | षढोः कः सि | ८|२| ४१ | ' | शितैस्तीक्ष्णैः शूलैरतौत्सुः व्यथयन्ति स्म । तुदेरनिटो हलन्तलक्षणा वृद्धिः । भेरीश्च शुभाः उच्चैः शब्दा अवीवदन् वादितवन्तः । ' २३१३ | सन्वल्लघुनि - | ७|४|९३ |' इति सन्वद्भावादभ्यासस्येत्वं '२३१८ | दीर्घो लघोः | ७| ४ | ९४ |' इति दीर्घत्वम् ॥
११८६ - स तान् ना ऽजीगणत् सर्वा
निच्छया ऽबुद्ध च स्वयम्,
॥
अबूबुधत कस्मान् माम॑प्राक्षीच् च निशाचरान्. ॥ ५ ॥
स तानित्यादि - स कुम्भकर्णः तान् सर्वान् उपद्रुतान् नाजीगणत् न गणयति स्म । न वेदितवानित्यर्थः । गणेः स्वार्थिकण्यन्तस्यादन्तस्याभ्यासस्य '२५७३ । ई च गणः |७|४|९७|' इतीत्वम् । स्वयं चारमन इच्छयाबुद्ध बुध्यते स्म । '२२८१| झलो झलि |८|२|२६|' इति सिचो लोपः । निशाचरांश्चाप्राक्षीत् पृष्टवान् । हलन्तलक्षणा वृद्धिः । ' २९४ | ब्रश्व - |८|२|३६|' इत्यादिना षत्वम् । ‘२९५। षढोः कः सि |८|२| ४१ |' कस्मान्मामबूबुधत यूयं प्रबोधितवन्तः । बुधेर्ण्यन्तस्य मध्यमपुरुषबहुवचने '२३१४। णौ चङ्युपधायाः - |७|४|१|' इति हस्वत्वं अभ्यासस्य ‘२३१८। दीर्घो लघोः | ७|४|१४|' इति दीर्घत्वम् ॥ १९८७ - ते भाषिषत 'राजा त्वां दिदृक्षुः क्षणदा-चर !' ॥
सोऽस्नासीद्, व्यलिपन्, मांसम॑प्सासीद्, वारुणीम॑पात्
त इत्यादि - ते राक्षसास्तथोक्ताः सन्तः भभाषिषत भाषितवन्तः । हे क्षणदाचर! राजा रावणस्त्वां दिदृक्षुः द्रष्टुमेषणशील इति । '६२७। न लोक
भ० का० ३२
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com