SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३७२ भट्टिकाव्ये-चतुर्थे तिडन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः; लङ्कां तदा भेजुरुदीर्ण-दैन्या, व्याचख्युरुच्चैश् च हतं प्रहस्तम्, ॥११३ ॥ यदेत्यादि-क्षणदाचराणां रामबलाभियोगे मनोरथा वान्छितानि यदा न फेलुः न फलिताः, प्रहस्तस्य व्यापादितत्वात् । तदा लङ्कां भेजुः सेवितवन्तः । उदीर्णदैन्याः उदी] महदैन्यं दीनभावो येषामिति । प्रहस्तं च हतं मृतमुच्चैराचख्युः आख्यातवन्तः । रावणायेत्यर्थात् ॥ इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्येचतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः), ___ तथा लक्ष्यरूपे कथानके 'शर-बन्धों' नाम चतुर्दशः सर्गः ॥१४॥ २५ प्रतिष्ठित अवस्थातुं न वा' हा परितः समन्त पञ्चदशः सर्गःइतः प्रभृति लुङमधिकृत्य तद्विलसितमाह-तत्र भूतसामान्ये लुङ् । ततो. ऽन्यत्रापि दर्शयिष्यति११८२-राक्षसेन्द्रस् ततो ऽभैषीदैक्षिष्ट परितः पुरम्, ॥ प्रातिष्ठिपच् च बोधाऽर्थ कुम्भकर्णस्य राक्षसान्, १ राक्षसेत्यादि-ततः प्रहस्तवधश्रवणानन्तरं 'ईदृशो ऽपि व्यापादितः' इति अभैषीत् । '२४९। सिचि वृद्धिः-७।२।१।' परितः समन्तात् पुरं लङ्कामैक्षिष्ट दृष्टवान् । 'किमत्र शक्यते स्थातुं न वा' इति । कुम्भकर्णस्य सुप्तस्य बोधनार्थ राक्षसान् प्रातिष्ठिपत् प्रस्थापितवान् । तिष्ठतेश्वङ्परे णावुपधाहस्वापवादः । २५८८। तिष्ठतेरित् ।७।४।५।' इतीत्वम् । द्विवचनमभ्यासकार्यम् । धातोरादेशः षत्वं ष्टुत्वं च ॥ ११८३-ते ऽभ्यगुर् भवनं तस्य, सुप्तं चैक्षिषता ऽथ तम् , ॥ व्याहार्डस् तुमुलान् शब्दान् , दण्डैश् चा ऽवधिषुर द्रुतम् ॥ २॥ तेऽभ्यगुरित्यादि-ते राक्षसास्तस्य कुम्भकर्णस्य भवनं गृहं अभ्यगुः गताः। '२४५८। इणो गा-४१४५' इति लुङि गादेशः। '२२२३। गाति स्था-1 २११७७।' इति सिचो लुक् । '२२१४। उस्यपदान्तात् ।६।१।९६' इति पररूपस्वम् । ते च सुप्तमैक्षिषत दृष्टवन्तः । अथानन्तरं प्रबोधार्थ तुमुलान्महतो ध्वनीन् व्याहार्षः व्याहृतवन्तः । '२२६८। नेटि ७२रा' इति वृद्धिप्रतिषेधः। हलसमुदायपरिग्रहणादृद्धः प्राप्तत्वात् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy