________________
३७८ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
कुम्भकर्ण इत्यादि-ततस्तद्वचनानन्तरं कुम्भकर्णो ऽगर्जीत् गर्जितवान् । अन्यांश्च भटान् पृष्ठतो गच्छतो न्यवीवृतत् निवर्तितवान् । वृतेश्चपरे णावु. पधाया '२५६७।' उत् ७४७।' इत्यपवाद ऋकारादेशः । महास्त्राणि उपायंस्त स्वीकृतवान् । औपचारिकमत्र स्वीकरणं तेन तङ् । यदि वा उपापूर्वाद्यमेः '२७४०। समुदाभ्यो यमोऽग्रन्थे ।१।३।७५।' इति तङ् । पुरश्च लङ्कातः द्रुतं निरगात् निर्गतः । इणो गादेशः । २२२३। गाति-२।४।७७।' इति सिचो लुक् ॥ १२०३-मूनो दिवमिवा ऽलेखीत् ,
खं व्यापद् वपुषोरुणा, ॥ पादाभ्यां मामिवा ऽभैत्सीत्,
दृष्ट्या ऽधाक्षीदिव द्विषः ॥ २२॥ मूर्ध्नत्यादि-निर्गच्छन् मूर्धा दिवमलेखीदिव लिखितवा निव । उरुणा महता वपुषा खं व्यापत् व्याप्तवान् । लदित्वादछ । क्ष्मां पृथ्वीं पादाम्याममैसीदिव विदारितवानिव । द्विषः शत्रून् दृष्ट्याधाक्षीदिव भस्मसात् कृतवानिव । '१०६०। दह भस्मीकरणे ॥ १२०४-दग्ध-शैल इवा ऽभासीत्, प्राक्रस्त क्षय-मेघ-वत्, ॥
प्राचकम्पदुदन्वन्तं, राक्षसानप्यतित्रसत्. ॥ २३ ॥ दग्धशैल इत्यादि-महत्त्वात् कृष्णत्वाच्च दग्धशैलवदभासीत् भाति स्म । ११२५। भा दीप्तौ' । २३७७। यम-रम-19॥२।७३।' इति सगिटौ । क्षयमेघवत्प्राक्रस्त प्रस्थितः । २७१५। प्रोपाभ्यां समर्थाभ्याम् ॥१॥३॥४२॥' इति तङ् । प्रतिष्ठमानश्च उदन्वन्तमचकम्पत् कम्पितवान् । '४०१ । कपि चलने । इदितो ण्यन्तस्य चङि रूपम् । राक्षसानपि अतिनसत् त्रासितवान् । ब्रसेपर्यन्तस्य चडि रूपम् ॥ . १२०५-स-पक्षो ऽद्रिरिवा ऽचालीन् ,
न्यश्वसीत् कल्प-वायु-वत्, ।। अभाषद् ध्वनिना लोका
नभ्राजिष्ट क्षयाऽग्नि-वत्. ॥ २४ ॥ सपक्ष इत्यादि-सपक्ष इवादिः बाह्वोःपक्षानुकारित्वात् अचालीत् चलितः। लान्तत्वात्सिचि वृद्धिः । क्रोधाकल्पान्तवायुवस्यश्वसीत् निश्वसितवान् । २२९९।
यन्त-1७।२।५।' इति वृद्धिप्रतिषेधः । ध्वलिना लोकानभार्षीत् परितवान् । '९६५। भृम् भरणे।' ईडन्तस्य सिचि वृद्धिः । अभाजिष्ट भाजते स । क्षयामि वत् पिङ्गलकेशत्वात् , लोकविनाशहेतुत्वाच ॥ १२०६-अनंसीद् भूर भरेणा ऽस्य,
रंहसा शाखिनो ऽलुठन्, ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com