________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधो' नाम पञ्चदशः सर्गः- ३७९
सिंहाः प्रादुद्रुवन् भीताः,
प्राक्षुभन् कुल-पर्वताः ॥ २५ ॥ अनंसीदित्यादि-अस्य भरेण भूरनंसीत् नता । '२३७७। यम-रम1७।२।७३।' इति सगिटौ । रंहसा वेगेन शाखिनो वृक्षा अलुठन् पतिताः। ३५७। रुठ लुठ प्रतिघाते' । धुतादित्वादछ । धुतादीनामनुदात्तत्वात्तङ् । '२३४५। द्युयो लुङि ।१।३।९१' इति परस्मैपदविकल्पः । सिंहाः भीताः सन्तः प्रादु. द्रुवन् पलायिताः । '१३१२। णि-शि-३।१।४।' इत्यादिना चङ् । कुलपर्वताः प्राक्षुभन् संचलिताः । धुतादित्वादङ् । पूर्ववन्नात्मनेपदम् ॥ १२०७-उत्पाताः प्रावृतंस् तस्य, द्यौरशीकिष्ट शोणितम् , ॥
वायवोऽवासिषुर भीमाः, क्रूराश् चाऽकुषत द्विजाः. २६ उत्पाता इत्यादि-तस्य गच्छत उत्पाताः प्रावृतन् प्रवृत्ताः । ४११ । वृतु वर्तने' धुतादिः । द्यौः शोणितमशीकिष्ट सिञ्चति स । '७७॥ शीक सेचने' अनुदात्तेत् । वायवो भीमाः प्रचण्डा अवासिषुर्वान्ति स । '२३७७। यम-रम।७।२।७३।' इति सगिटौ । क्रूराश्चाशुभसूचका द्विजाः पक्षिणोऽकुषत शब्दिताः। '१४९४। कुङ् शब्दे' इत्य निद । कुटादित्वात् सिचः कित्वे न गुणः ॥ १२०८-अस्पन्दिष्टा ऽक्षि वामं च,
घोराश् चा ऽराटिषुः शिवाः, ॥ न्यपतन मुसले गृध्रा,
दीप्तया ऽपाति चोल्कया. ॥ २७ ॥ अस्पन्दिष्टेत्यादि-वामं चास्याक्षि भस्पन्दिष्ट स्पन्दते स। घोराः अनिटशंसिन्यः शिवाः अराटिपू रटन्ति स्म । '३३८४। अतो हलादेः-६।२।७।' इति वृद्धि विकल्पः । गृध्रा मुसले न्यपतन उपविष्टवन्तः । टदित्वादछ । ३२५५। पतः पुम् ।७।४।१९।' इति पुमागमश्च । दीप्तया उल्कया अपाति पतितम् । भावे विणादेशः ॥ १२०९-आंहिष्ट तान-संमान्य दर्पात् स प्रधन-क्षितिम् , ॥
ततोऽनर्दीदनन्दीच्च, शत्रूनाह्वास्त चाऽऽहवे. २८ आंहिष्टेत्यादि-तान उत्पातान् कुम्भकर्णो ऽसंमान्य दर्पादवज्ञाय प्रधनक्षितिं युद्धभूमिमांहिष्ट गतवान् । तत उत्तरकालं अनर्दीत् गर्जितवान् ‘क यास्यथेदानीम्' इति । अनन्दीच जयश्रियं श्लाधितवानित्यर्थः । माहवे संग्रामे शत्रूनाहास्त माहूतवान् 'आगच्छत, युध्यध्वम्' इति । '२७०४॥ स्पर्धा
१-१२३६। दन्त-विप्रा Sण्डजा द्विजाः ॥' Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com