Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
न हि तदनेन करणं समर्प्यते, गुणस्य करणत्वेनान्वयात् । नापि फलम्, पशोर्भाव्यत्वेनान्वयात् । अथ गुणफलसम्बन्धविधाने यागस्याश्रयत्वेनान्वय इति चेत्र यजेतेत्यत्र श्राश्रयत्ववाचकपदाभावात् । फलाय विधीयमानो गुणो यत्र कारकतामापद्यते स श्राश्रयः तत्त्वञ्चाश्रयत्वम् । करणत्वञ्च निष्कृष्टा शक्तिरिति लाघवम् ।
१८७
मलभमानस्य होमस पारायेंऽपि नात्यन्तपारार्थ्यम् । कर्म्मतयापि भावनायां साचादब्वयात् । प्रकृते तु दधेन्द्रिय कामस्येत्यादाविव यागाश्रितेन उह्निदः करणत्वेन पर्श भावयेदित्यर्थ पय्र्यवसाने धात्वर्थस्य यागस्य भावनायां साचादन्वयो न सम्भवति । किन्तु भावबान्वित करणत्वा श्रयत्वेनेत्यन्तपारायमिति भावः । यज्यानको ति । यजधातुप्रयोगानक्यापतेरित्यर्थः
यज्यानर्थक्यं व्यञ्जयति नहीति । अनेन यजधातुना । समर्प्यते प्रतिपाद्यते । करणाकाङ्क्षा न निवर्त्यत इति भावः । गुणस्येति । तृतीयान्ततयोपस्थितत्वादिति भावः । फखमिति । समर्प्यत इत्यन्वयः । तथाच भाव्याकाङ्क्षापि यजिना न विवयते । पशुमिति द्वितीयान्ततयोपस्थितस्य पशोर्भाव्यत्वप्राप्तरिति भावः ।
For Private And Personal
मनु दधेन्द्रिय कामस्येत्यादिगुणफलविधौ यथा यामस्याश्रयत्वेनान्वयः सिद्धान्तितस्तथा प्रकृतेऽप्याश्रयत्वेनान्वयोऽस्तु तेनाप्यानर्थक्य परिहारः स्यादित्याशङ्कते अथेति । निराकरोति मेति । श्राश्रयत्ववाचकेति । तथाच तहाचकपदाभावात् कथं तदुपस्थितिरिति भावः । अनूद्भिदा यजेत पशुकाम इत्यत्र उडिदा यागेन पशुं भावयेदिति नामधेयत्वसिद्धान्तेऽफि करणत्ववाचकपदविरहात् कथं करणत्वेनोपस्थितिरङ्गीक्रियते । अवोच्यते लचणया कारणत्वं लभ्यत इति । तर्हि श्राश्रयत्वमपि लक्षणया लभ्यतामित्याशङ्कते अथेति ।
आश्रयत्व करणत्वलक्षणयोगौरवलाघवं प्रदर्शयिष्यन् श्राश्रयत्वं निर्व्वक्ति फलायेति । फलाय इन्द्रियादिफलाय । गुणी दध्यादिः । यत्र होमादौ । कारकतां करणताम् । मत्वमाश्रयत्वमिति । तथाच फलजनकत्वेन विधीयमान गुणविशेषस्य करणभावापत्तिस्थानत्वमाश्रयत्वमिति तत्त्वेन लक्षणायां लक्ष्यतावच्छेदकमौरवमिति भावः । करणत्वेन सुचणायां ततो लाघवमुपदर्शयति करणत्वञ्चेति । निष्कृश शक्तिरिति । निष्कृष्ट
+

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474