Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 440
________________ Shri Mahavir Jain Aradhana Kendra २५६ www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir न च पदशास्त्रेणाहवनीयशास्त्रस्येव नानुयाजेष्विति विशेषशास्त्रेण यजतिषु येयजामहं करोतीति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम् । शास्त्रयोर्हि न तत्र बाध्यबाधकभावो यत्र परस्य निरपेक्षता । नहि पदशास्त्रस्य स्वार्थविधानार्थमाहवनीयशास्त्रापेचास्ति । निषेधशास्त्रस्य तु प्रसक्त्यर्थं यजतिषु येयजामहं करोतीति विधेरस्त्यपेक्षा । एवञ्च निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवत् विधि ननु यदि शास्त्रेण शास्त्रान्तरबाधो न युज्यते तदा चाहवनीये नुहीतोति सामान्यशास्त्रप्राप्तस्याहवनीयस्य यागविशेषामातेन यदि जुहोतोत्यनेन वाध: सिद्धान्तसिद्धो विरुध्येत । तस्मात् तद्दत् येयजामहनिषेधशास्त्रेण विशेषेण येयजामहकरण - शास्त्र सामान्यं सर्वदेव बाध्यतामित्यापतिं परिहरति न चेति । परिहारकं हेतुमाह शास्त्रयोहति । परस्येति । विशेषशास्त्रस्येत्यर्थः । निरपेक्षता स्वप्रवृत्ती सामान्यशास्त्रानपेचित्वम् । पदाहवनीयशास्त्रयोर्मध्ये विशेषस्य पदशास्त्रस्य सामान्यशास्त्रभिरपेचत्वं प्रतिपादयन् शास्त्रयीर्बाध्यबाधकभावसुपपादयति नहौति । प्रतिषेधरूपे विशेषे तपरौत्यं प्रदर्शयन् सामान्यविविविशेषनिषेधयोर्वाध्यबाधकभावासम्भवं प्रतिपादयति निषेधशास्त्रस्येति । नानुयाजेषु येयजामहं करोतीति निषेधरूपविशेषशास्त्रस्येत्यर्थः । प्रत्यर्थं निषेध्यस्य येयजामहस्य प्राप्तार्थम् । तथाच यदि येयजामह विधिलभ्यमनुयाजेषु येयजामहस्य कर्त्तव्यताज्ञानमेव न स्यात् तदा निषेधशास्त्रीय तत्र तद्वाध एव न घटते । प्रमाणविशेषेण कर्त्तव्यतया ज्ञानविषयस्थ पदार्थस्य प्रमाणान्तरेण तज्ज्ञानस्य मिथ्यात्वकल्पनया तद्दिषयव्यवहार प्रतिबन्धस्य बाधपदार्थत्वात् । तथाचीतं भाष्यकारेदशमाध्याय प्रथमाधिकरणे— बाधो नाम यदेवेदमिति निश्चितं विज्ञानं कारणान्तरेण मिथ्येति कथ्यते इति । तस्मात् प्रतिषेधेन प्रतिषेध्यप्राप्तार्थं विधिरपेक्षणीय एवेति भावः । ननु प्रतिषेध्यप्राप्तये प्रतिषेधे नावश्यापेचयोयो विधि: प्रतिषेधाधिकरणे प्रवर्त्तताम् । अनन्तरन्तु विशेषविषयत्वेन बलीयसा प्रतिषेधेनासावत्यन्तमेव बाध्यतामिति न विकल्पाव तार:, तुल्यबलत्वाभावादित्यत तुल्यबलत्वमेवोभयोर्ट भंयति एवञ्चेति। उपमन्यत्वेन For Private And Personal

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474