Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 453
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir च्यायप्रकाशः। तदेवं यथा विध्यादीनामध्ययनविध्युपात्तानां नानर्थक्यम् एवमर्थवादानामपि तदुपात्तत्वेनानर्थक्यानुपपत्तेः। स्वार्थप्रतिपादने च प्रयोजनाभावाल्लक्षणया प्रयोजनवदर्थपर्यवसानं वक्तव्यम् । ते चार्थवादा हिविधाः, विधिशेषा निषेधशेषाश्च । तत्र वायव्यं खेतमालभेतेत्यादिविधिशेषानां वायुर्वै क्षेपिष्ठा देवतेत्यादीनामर्थवादानां विधेयार्थस्तावकतयार्थवत्त्वम् । वहिषि रजतं न देयमित्यादिनिषेधविशेषाणां सोऽरोदीदित्यादीनामर्थवादानान्तु निषेध्यनिन्दकतयेति। अतश्च लक्ष. णया प्राशस्त्य मर्थवाद/ध्यते । इदानीमर्थवादस्य पुरुषार्थानुबन्धित्वं साधयति तदेवमिति। एवम् अतीतग्रन्थसन्दभौंतवत् । अध्ययनविधौति। स्वाध्यायोऽध्येतव्य इवौत्यर्थः । तदुपातत्वेन खाध्यायविधिविषयत्वेन । तथाघ खाध्यायोऽध्येतव्य इति विधिना सर्वस्यैव वेदस्याध्ययनमर्थसाधनमिति प्रतिपादनात् अथवादानाञ्च तदन्तःपातात्तेषामपि पुरुषार्थसाधनत्वप्रतीते: कथमानर्थक्यसम्भव इति भावः । ननु तेषां स्वारसिकार्यपरत्वे किमपि प्रयोजनं नोपलभ्यते सत्कथं पुरुषार्थानुबधित्व सम्भव इत्यत पाह स्वार्थेवि। खारसिका यर्थः । लक्षणयेति । प्राशस्त्य निन्दितत्वान्यतरलाक्षणि कार्य प्रतिपादकतवेत्यर्थः । कुत्र प्राशस्यं कुत्र वा निन्दितत्वं लक्षणौ यमित्यतस्तत्प्रतिपादनायार्थ वाद विध्यं दर्शयति वे चेति। विधिशेषा विध्युपकारकाः । निषेधशेषास्तदुपकारकाः। वायव्यं वायु. देवताकम् । श्वेतं पशुम् । स च छाग एव । छागोऽनादेशे पशुरिति स्मृतेः । विधेयाति । विधेयो यो वायुदेवताकप श्वास्तम्भनयागस्तद्रूपार्थस्य स्तावकतया प्राशस्त्य प्रतिपादकत येत्यर्थः । तथाच वायव्यं श्वेतमालभेत भूतिकामः । वायुर्वै क्षेपिठ। देवता वायुमेव खेन भागधेयेनोपधावति स एनं भूतिं गमयतीति श्रूयते । अनया श्रुत्या यतः क्षिप्रगामितया क्षिप्रफलप्रदी वायुरस्य पशोदेवता अतः प्रशस्त मिदं वायव्यश्वेतालम्भनमिति प्रतिपाद्यत इति भावः । निषेध्यनिन्दकतथेति । तथाच वर्हिषि रजतं न देयमिति निषेधीपक्रमे यो वहिषि रजतं दद्यात् पुरास संवत्सरात् रहे रोदनं भवतीत्युक्तरोदनं प्रति हेतुरूपन्यसत्ते “सी For Private And Personal

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474