Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 464
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८० न्यायप्रकाशः। पुंसां नेष्टाभ्युपायत्वात् क्रियावन्यः प्रवर्तकः । प्रवृत्तिहेतुं धम्मञ्च प्रवदन्ति प्रवर्तनाम् ॥ इति । तसिद्धं यजेतेत्यत्र लित्वांशेन शाब्दी भावनोच्यत इति । आख्यातत्वांशेनार्थी भावनोचते। ननु केयमार्थी भावना । कर्तव्यापार इति चेन्न । यागादेरपि तद्यापारत्वेन भावनालापत्तेः। न चेष्टापत्तिः। तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभावादिति चेत् । अत्राहुः । सत्यं न यागो भावना, किन्तु स्वर्गच्छाजनितों यागविषयो यः प्रयत्नः सा भावना। स एव चाख्यातत्वांशेनोचते। यजेतेत्याख्यात श्रवण एव यागे यतेतैति प्रतीतेर्जायमानत्वात् । यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन् देवदत्तो गमनं पुंसामिति । इष्टाभ्युपायत्वात् इष्टसाधनत्वादन्यः कोऽपि पदार्थः पुंसां क्रियासु प्रवर्तकः प्रवृत्ति हेतुर्न भवति । तथाच इष्टसाधनत्वमेव प्रवृत्ति हेतुरिति भावः । तथा प्रवृत्तिहेतुं धर्म प्रवर्तनां प्रवदन्ति । एवञ्च यदि प्रवत्ति हेतुधर्मस्य प्रवर्णनात्वं ताई सुतरा. मेव इष्ट साधनत्वस्य प्रवर्तनात्वमिति सिध्यति । शाब्दभावनानिरूपणमुपसंहरति तसिद्धमिति । पार्थभावनामाव्यका लिङादिज्ञानकरणिका प्राशस्त्य ज्ञानेतिकर्तव्यताका शाब्दी भावना लित्वांशेनोच्यत इति प्रागुक्त वाक्येन आर्थभावना शाब्दभावनाया भाव्ये त्युक्तम्। सा पुन रार्थभावना किंखरूपति जिज्ञासायां तां निरूपयति पाख्या तत्वांशेनेति । लिङि दौ धर्मों विद्येते आख्यातत्व लिड त्वञ्चेति। तयोराख्यातत्वांशेनेत्यर्थः । तद्यापारत्वेन कर्तृव्यापारत्वेन । तस्य यागादिरूप कर्तव्यापारस्य । प्रकृत्यर्थत्वेन धात्वर्थत्वेन । पत्र जिज्ञासायाम् । पाहुरिति । पार्थसारथिमिश्रादय इति शेषः । स एव प्रयत्न एव । तस्याख्यातत्व वाच्यत्वे प्रमाणमाह यजेतेति । यागे यागविषये। यतेत यवं कुर्वीत । ननु यजेतेत्यत्र यागे यतेतेति प्रतौती प्रमाणाभावः। गच्छतीत्यादौ गमनं करीतीत्यादिप्रतीतर्यागं कुर्यादिति प्रतीतेरेवौचित्यात् । तस्कर्ष यवस्थाख्यातवाच्यत्वसम्भव इत्यतः करीत्यर्थप्रयवयोरभेदात् करीत्यर्थप्रतीतावेव प्रयत्न प्रतीतिरिति दर्शयति यश्चेति । For Private And Personal

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474