Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 460
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। ___ अन्ये वाहुः सत्वं प्रवर्तनासामान्य विध्यर्थः, तथैव शक्तिग्रहात्। प्रवृत्त्यनुकूलश्च व्यापारः प्रवर्तना। अपौरुषेये च वेदे प्रेषादेरसम्भवात् कश्चित् पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः कल्पनीयः। विधिशब्दाभिधेयप्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यवसानात् । तत्र कोऽसौ व्यापार इत्यपेक्षायां धात्वर्थगतं समीहितसाधनत्वमेवेति कस्पाते। तस्यापि प्रवृत्त्यनुकूलत्वात् । सर्बो हि समोहितसाधनतां ज्ञात्वा प्र. वर्तते । अन्यप्रेरितो यदीष्टसाधनतां न जानाति तदा नैक प्रवर्तते । खतन्त्रप्रेरणावादेऽपि तदाक्षिप्तसमोहितसाधनताजानं खोक्रियत एव। अन्यथा विधेः प्रवर्तकलानुपपत्तेः । मतान्तरमाह अन्ये विति । सत्यमित्य नेन सबै पूर्ववादिमतमङ्गीकृत्य व्यापारविशेषस्य कैवलमन्यप्रकारत्वं दर्शयति तत्र कोऽसाविति । धालयनिष्ठं यागादिनिष्ठम् । समौहितसाधनत्वं बलवदनिष्टाननुबन्धीष्टसाधनात्वम् । तस्य प्रवर्तनापदवाच्यत्ववीजमाह तस्थापीति । धात्वर्थगतसमौहितसाधनत्वस्य प्रवृत्तिजनकतायामन्वव्यतिरेको दर्शयति सवो हौति । प्रवर्तत इत्यन्वयप्रदर्शनम्। नैव प्रवर्तत इति व्यतिरीकप्रदर्शनम् । ननु लिङ पदनिष्ठः स्वतन्त्रप्रेरणाख्यव्यापार एव प्रवर्तनेत्यझोक्रियतामलं धात्वर्थगतसमौहितसाधनताकल्पनेन गौरवादित्यत भाइ स्वतन्त्रेति । तथाघ लिङ निष्ठस्वतन्त्रप्रेरणाख्यन्यापारविशेषस्य प्रवर्तनात्वाङ्गीकारेऽपि विधेयगतेष्टसाधनताज्ञानस्यावश्याभ्युपेयत्वम्। प्रागुक्तान्वयव्यतिरेकाभ्यां प्रति प्रति तस्य हेतुत्वावश्यम्भावात् । सम्मादङ्गीकृतप्रवर्शनाख्यखतन्त्रव्यापारण विधेयगतमिष्टसाधनत्वमपि बोध्यत इति भावः । तदनाचेपे का हानिरित्यत आह अन्यथेति। विधेयगतेष्टसाधनत्वानवबोधने इत्यर्थः । प्रवर्तकत्वेति । तथाच विधेयस्य समौहितसाधनताज्ञानमन्तरेण विधिशवेनापि पुरुषप्रवृत्तिरुत्पादयितु. मशक्येति भावः। एतन्मते तु विधिबोधितपदार्थस्य समीहितसाधनतायाः प्रवर्तकत्वेन विधेरपि प्रवर्तकत्वं निर्वहतीति बोध्यम् । एवञ्च यदि स्वतन्त्रव्यापाराशीकारेऽपि धात्वर्थ For Private And Personal

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474