________________
Shri Mahavir Jain Aradhana Kendra
२५६
www.kobatirth.org
न्यायप्रकाशः 1
Acharya Shri Kailashsagarsuri Gyanmandir
न च पदशास्त्रेणाहवनीयशास्त्रस्येव नानुयाजेष्विति विशेषशास्त्रेण यजतिषु येयजामहं करोतीति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम् । शास्त्रयोर्हि न तत्र बाध्यबाधकभावो यत्र परस्य निरपेक्षता । नहि पदशास्त्रस्य स्वार्थविधानार्थमाहवनीयशास्त्रापेचास्ति । निषेधशास्त्रस्य तु प्रसक्त्यर्थं यजतिषु येयजामहं करोतीति विधेरस्त्यपेक्षा ।
एवञ्च निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवत् विधि
ननु यदि शास्त्रेण शास्त्रान्तरबाधो न युज्यते तदा चाहवनीये नुहीतोति सामान्यशास्त्रप्राप्तस्याहवनीयस्य यागविशेषामातेन यदि जुहोतोत्यनेन वाध: सिद्धान्तसिद्धो विरुध्येत । तस्मात् तद्दत् येयजामहनिषेधशास्त्रेण विशेषेण येयजामहकरण - शास्त्र सामान्यं सर्वदेव बाध्यतामित्यापतिं परिहरति न चेति । परिहारकं हेतुमाह शास्त्रयोहति । परस्येति । विशेषशास्त्रस्येत्यर्थः । निरपेक्षता स्वप्रवृत्ती सामान्यशास्त्रानपेचित्वम् । पदाहवनीयशास्त्रयोर्मध्ये विशेषस्य पदशास्त्रस्य सामान्यशास्त्रभिरपेचत्वं प्रतिपादयन् शास्त्रयीर्बाध्यबाधकभावसुपपादयति नहौति । प्रतिषेधरूपे विशेषे तपरौत्यं प्रदर्शयन् सामान्यविविविशेषनिषेधयोर्वाध्यबाधकभावासम्भवं प्रतिपादयति निषेधशास्त्रस्येति । नानुयाजेषु येयजामहं करोतीति निषेधरूपविशेषशास्त्रस्येत्यर्थः । प्रत्यर्थं निषेध्यस्य येयजामहस्य प्राप्तार्थम् । तथाच यदि येयजामह विधिलभ्यमनुयाजेषु येयजामहस्य कर्त्तव्यताज्ञानमेव न स्यात् तदा निषेधशास्त्रीय तत्र तद्वाध एव न घटते । प्रमाणविशेषेण कर्त्तव्यतया ज्ञानविषयस्थ पदार्थस्य प्रमाणान्तरेण तज्ज्ञानस्य मिथ्यात्वकल्पनया तद्दिषयव्यवहार प्रतिबन्धस्य बाधपदार्थत्वात् । तथाचीतं भाष्यकारेदशमाध्याय प्रथमाधिकरणे—
बाधो नाम यदेवेदमिति निश्चितं विज्ञानं कारणान्तरेण मिथ्येति कथ्यते इति ।
तस्मात् प्रतिषेधेन प्रतिषेध्यप्राप्तार्थं विधिरपेक्षणीय एवेति भावः ।
ननु प्रतिषेध्यप्राप्तये प्रतिषेधे नावश्यापेचयोयो विधि: प्रतिषेधाधिकरणे प्रवर्त्तताम् । अनन्तरन्तु विशेषविषयत्वेन बलीयसा प्रतिषेधेनासावत्यन्तमेव बाध्यतामिति न विकल्पाव तार:, तुल्यबलत्वाभावादित्यत तुल्यबलत्वमेवोभयोर्ट भंयति एवञ्चेति। उपमन्यत्वेन
For Private And Personal