________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
२५५
प्रहत्तं पुरुष प्रति न प्रवर्तते, वैययात् । किन्तु दलनादी प्रवृत्तं प्रति। एवं न हन्यादिति शास्त्र हननात् स्वयं प्रवृत्तं पुरुषं प्रति न प्रवर्तते, वैयर्थात्। किन्तु हनने प्रवृत्तं पुरुषं प्रति, कर्तव्यत्वेन प्रसक्तस्य निषेधात् यत्कर्तव्यं तन्नेति । ___ अतश्च प्राप्तिसापेक्षत्वात् प्रतिषेधानामनुयाजेषु येयजामहप्रतिषेधे तस्य तत्र प्राप्तिर्वक्तव्या, सा न तावद्धननादाविव रागतः सम्भवति । अतो यजतिषु येयजामहं करीतीति शास्त्रात् सा वक्तव्या । शास्त्र प्राप्तस्य निषेधे विकल्पः स्यात् । शास्त्रेण भ्रान्तिनिमित्तरागस्येव शास्त्रान्तरस्यात्यन्तबाधायोगात् ।
प्रवर्तत इत्यन्वितम् । वैयर्थादिति । स्वतः प्रवृत्तस्य पुरुषस्य अवघातप्रवृत्त्युत्पादनानावश्यकत्वादिति भावः । दलनादाविति । वैतुष्यस्य नानोपायसाध्यत्वेन अवघातमुत्सृज्य यः पुमान् वंशनाख्यादिना दखनादौ वैतुष्याय प्रवर्तते तं प्रतीत्यर्थः । एतत्सादृश्यं दाटी. न्तिके अवगमयति एवमिति । वैयर्थ्यादिति । निहत्तस्य निवृत्त्युत्पादनानावश्यकत्वादिति भावः। कर्त्तव्यत्वे नेति । यत्कर्त्तव्यं कर्तव्यतया निश्चितं तहस्तुती न कर्त्तव्यमिति निषेधादित्यर्थः ।
लखमादनुयाजेषु ये यजामहप्रतिषेधानीकार तत्र तत्प्राप्निवक्तव्ये वेत्या अतश्चेति । सा च प्राप्तिर्न रागत: सम्भवतीत्याह सा नेति । एवञ्च शास्त्रादेव तत्प्राप्ति रोकायंत्याह चत इति । यजतिष्विति । यात यागेषु । एतच येयजामहसहितं मन्त्रगणमभिघायामाताया: "एष वै सप्तदश प्रजापतिर्यजे यज्ञे अन्वायत्त” इति श्रुतेस्तात्पयार्थमादायीपरचितं वाक्यं न तु साक्षात् श्रुतिरेषा । भाष्यादौ एष वै सप्तदश प्रजापतिरित्यादिश्रुतेरेव विषयवाक्यताया दर्शितत्वात्।
भवतु शास्त्रादेव प्राप्तिर्वतव्या का हानिरिस्यत पाह शास्त्र प्राप्तस्येति । विकल्प: इच्छया ये यजामहमन्त्रं पठेन्न पठेद्देत्येवरूपः। ननु यथा रागमाप्तस्य शास्त्रे ण सर्वदा पाधी रागनिमित्तस्य भान्तित्वकल्पनात्, तथा येयवामहस्यापि सव्वंदैव वाधः स्वादित्यत पार शास्त्रे गति ।
For Private And Personal