________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५४
न्यायप्रकाशः।
प्रवर्तते। तत्र यदि निषेधस्त्र प्राप्तिसापेक्षत्वं न स्यात्तदा रागादि तिरोधाय हननादावप्रवृत्तं प्रत्येव शास्त्रप्रामाण्योपपत्ती रागादिना हननादौ प्रवृत्तेन पुंसा न ततो निवर्तितव्यम् ।
प्राप्तिसापेक्षत्वे तु स्वयमप्रकृतं प्रति प्रसत्यभावेन निषेध शास्त्राप्रवृत्ते रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्रप्रवृत्तेर्युक्ता प्रवृत्तस्य ततो निवृत्तिः। . अतश्च ब्राह्मणो न हन्तव्य इत्यस्य निषेधस्य निवृत्तिनियमबोधकत्वम् । व्रीहोनवह न्यादित्यस्येवावघातनियमबोधकत्वम् । यथा खलु बोहोनवहन्यादित्यादिशास्त्रं वैतुष्यार्थमवधाते स्वतः:
सापेक्षत्वानभ्युपगमे दोषमाह तत्र यदीति । रागादि रागादिकं निमित्तम्। तिरोधाय विजित्य । प्रामाण्योपपत्ताविति । तथाच यः पुमान् रागादिकं न्धक्कत्य हननादावहत्त एव वर्तते न इन्तव्य इति निषेधशा स्त्रस्य तहिषयत्वे ने वीपपत्तौ यो रागादिना प्रवर्तते तेन न निवर्तितव्यं, निषेधशास्त्रस्य प्रवृत्तविषयत्वानावश्यक त्वादिति भावः ।
निषेधस्य प्राप्तिसापेक्षत्वाङ्गीकारे तु नैष दोष इत्याह प्राप्तीति । स्वयमप्रवृत्तं रागाद्यभावेनाप्रहत्तम् । प्रसत्यभावेन हननप्राप्तभावेन। प्रवृत्तं रागादिना हननप्रवृत्तम् । प्रत्येवेति । एव कारण प्रतिषेधशास्त्र स्थाप्रवृत्तविषयत्वे साफल्यं नास्तीति दर्शितम् ।
भान्तिनिमित्तरागबाधेनेति । भान्तिर्निमित्तं यस्य तथाविधस्य रागस्य बाधेन रागनिमित्तभूतस्येष्टसाधनताज्ञानस्य भ्रान्तित्वसम्पादनया रागजन्यव्यवहारप्रतिबन्धेनेत्ययः । तथाच हननं बलवदनिष्टाननुबन्धौष्टसाधनं वेरनिर्यातनफलकत्वादनिष्ट विशेषादर्शनाचे ति हननस्य बलवनिष्टाननुबन्धौष्टसाधनताज्ञानमादौ भवति ततस्तस्मिनिच्छा जायते तदनन्तरच तस्मिन् प्रवर्तते । तदानौं न हन्तव्य इति प्रतिषेधवाक्येन इननं बलवदनिष्ट साधनमिति बोधिते हुननस्य बल वदनिष्टान नुबन्धोष्ट साधनत्वेन यज्ञानं प्रामासीत् तस्य भ्रान्ति त्वमेव पुरुषी निशिनीति । ततम्त जनितरामस्याप्यनुचितत्वावधारणेन. जायमानामपि प्रवृत्ति संहरन् चे टातो निवर्तत इति रागजन्यव्यवहारप्रतिबन्धाद्रागबाध इति भावः ।
अतथेति । निषेधस्य प्रवृत्तविषयत्वादित्यर्थः । नियमबोधकल्ने दृष्टान्तमाह बौहीनिति । अवहन्यादित्यस नियमबोधकत्वं व्यनयति धथा खखिति । शास्त्र मिति । म
For Private And Personal