Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 450
________________ Shri Mahavir Jain Aradhana Kendra २६६ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir प्रतिषेधव पुरुषार्थस्तत्र निषिध्यमानस्य अनर्थहेतुत्वम्, यथा कलञ्जभक्षणस्य । दीचितो न ददाति न जुहोतोत्यादिषु दानहीमादीनां कारकतया च कटं कर्मेति न्यायादग्रहणेऽपि यागसिद्धौ ग्रहणस्येच्छा विषयत्वासम्भवेन -ग्रहणविधेरननुष्ठानलचणमप्रामाण्य मापद्येतेति चेन्न । विधिदर्शनादनुष्ठाने प्रधानस्योपकारभूयस्तं स्यात् । निषेधदर्शनाञ्च तदनुष्ठानाभावेऽपि तदङ्गरहिततानिवन्धनमुपकार त्वं न स्यादित्येतविशेषस्य कल्पनोयत्वात् । न च यद्वयस्य साधनं तदभावलव्यरिहारसाधनमिति नियमात् षोड़ शिग्रहणाभावस्य क्रतूपकारकत्वात् षोडशिग्रहणस्य ऋत्वनुपकारकत्वं प्रतीयतामिति विरोधतादवख्यमिति वाच्यम् । शब्दप्रमाणविरोधेन तन्त्रियमस्य भावाभावविकल्पव्यतिरिक्तविषयताया आवश्यकत्वात् । क्व तर्हि प्रतिषिध्यमानस्यानर्थहेतुत्वमित्यचानुगमकमाह यत्र त्विति । न विकल्पः प्रसव्यत इति । विकल्पस्थले प्रतिfroयमानस्यानर्थहेतुत्वे 'बाधकसत्त्वादिति भावः । एतेन षोड़शिनं न गृह्णातीत्यादिक्यावतिःत प्रतिश्च रागतः प्रतिषेधश्व पुरुषार्थ इत्येतद्यावर्त्त्यमाह दोचितो न ददातीति । अत्रायं विस्तरः । ज्योतिष्टोमे यूयते, दोचितो न ददाति म जुहोति न पचतौति । एते रागप्राप्तानां शास्त्रप्राप्तानां वा दानादीनां प्रतिषेधाः पर्युदासा वा इत्यत्र मतभेदा दृश्यन्ते । तत्र सूत्रकारभाष्यकारमते पर्य्युदासा एव । तथाहि न ददातीत्यादिश्रुतौ संशयः किमयमहरहर्दधात्, सायम्प्रातर्जुहोतीत्यादिशास्त्रप्राप्तानां पुरुषार्थानां दामादीनां प्रतिषेष उत ज्योतिष्टोमार्थत्वेन प्राप्तानां दानादीनां प्रतिषेधः । अथवा अविशेषात् सर्व्वेषामेवेति । अत्राविशेषात् सर्व्वेषामेवेति पूर्वपचः । तथाच दशमाध्यायाष्टमपाद पूर्वपचसूत्रम् . दोचितस्य दानहोमप्राकप्रतिषेधोऽविशेषात् सर्व्वदान होमपाकाप्रतिषेधः सादिति । For Private And Personal एवं पूर्वपचे माते सिद्धान्तसूत्रम् - अपि तु वाक्यशेषत्वादितरपर्य्युदासः स्यात् प्रतिषेधे विकल्पः स्यादिति । अव भाष्यम् -" अहरहर्दयादिव्यस्य शेषो न दौचित इति । एवं होमपाकयोरपि । असति पर्य्युदासे प्रतिषेधे विकल्पः स्यादिति ।

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474