Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 444
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। पुरोडाशं चतुर्दा करोतीति पुरोडाशसामान्य प्राप्तं चतुर्दाकरणमाग्नेयं चतुर्दा करोतीत्याग्ने ये सङ्कोच्यत इति चेन्न। तन्मात्र. सङ्कोचार्थत्वादुपसंहारस्य तदन्यमात्रसङ्कोचार्थत्वात् पर्युदासस्येति केचित् । निष्ठतया सङ्गीच इति तल्लक्षणं प्रतिपादितम् । एक्च प्रागुतपर्युदासस्यापि यागसामान्य प्राप्तस्य येयजामहस्य अनुयाजातिरिक्तरूपविशेषनिष्ठतया सझीचादभेदापत्तिसिध्यति । ननु सायं नाम परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकाधिकरणस्तित्वं यथा भूतत्वमूतत्वे । न तु द्रव्यत्व घटलयोरिव व्याप्यन्या पकभावापन्नधर्मयोः सामानाधिकरण्यम् । एवञ्च यदि पर्युदासस्योपसंहारव्याप्यत्वं यदि वोपसंहारस्य पर्युदासव्याप्यत्वं भवेन तदा सालापात इत्यतः पर्युदासस्य नेतोद्यन्तमादित्य मित्यादावुपसंहाराव्याप्यत्वस्य. प्राक् प्रदर्शनादिदानीमुपसंहारस्य पर्युदासाव्याप्यत्वं प्रदर्शयति यति । पुरीडाशमिति । दृतीयाध्यायप्रथमपाद दर्शपौर्णमासप्रकरणे श्रूयते । तं चतुर्दा कृत्वा पुरोडाशं वर्हिषदं करीतीति। दर्शपौर्णमासे च आग्नेयोऽग्नीषोमीय ऐन्द्राग्रश्न पुरोडाशी विद्यते । तत्प्रकरणीयया चतुर्दाकरण श्रुत्या सर्वेषां पुरीडाशानां चतुर्कीकरणं प्रतीयते । अत्यन्तरेण तु आग्नेयं चतुर्की कृत्वा इदं ब्रह्माए इदं होतुरिदमध्वोरिदमनौध इति ऋत्विग्भक्ष्यत्वेन भाग्ने यस्यैव चतुर्वाकरणं विधीयते । एत हाक्यगताग्नेयपदबोध्याग्निदेवताकपुरोडाममात्रनिष्ठतया तं चतुर्दा कृत्वा पुरोडाशमित्यु क्तपुरोडाशचतु करणं सङ्कोच्यत इति तात्पर्यम् । एवञ्च पर्युदासेतरत्रापि उपसंहारसनावात् पर्युदासाव्याप्यत्वमुपसंहारस्य सिद्धमिति सार्यमापद्यत एवेत्याशङ्का सुघटेति । पाशङ्कां परिहरति नेति । तन्मात्रेति। सामान्यस्य उपसंहारवाक्य घटकपदविशेषयोध्यपदार्थविशेषविषयत्वरूपसङ्कोचफलकत्वादित्यर्थः । तथाच विशेषशास्त्रघटकपदविशेषयोध्यपदार्थविशेषविषयकत्वेन सामान्य शास्त्रस्य सङ्कोचनमुपसंहारपदार्थ इति भावः। पर्युदासस्य तलक्षण्यमा सदन्येति। सामान्यशास्त्रस्य मज पदघटितवाका. घटक-पदविशेष-बोध्य-पदार्थविशेषतर निखिलपदार्थ निष्ठतारूप-सङ्कोचफलकत्वादित्यर्थः । तथाच नज पदघटितवाक्यघटक-पदविशेषयोध्यपदार्थविशेषेतर निखिलपदार्थविषयकत्वेन सामान्यस्य सङ्कोचनं पर्युदासपदार्थ इति भावः । इत्थञ्च उपसंहारस्थले सोचकवाक्यं मज पदाघटितम्, पर्युदासस्थले तु सोचक For Private And Personal

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474