Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 404
________________ Shri Mahavir Jain Aradhana Kendra २२० www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir प्रधानस्यानेकविशेषण- सङ्ग्राहकत्वादारुण्यादिविशिष्ट कय विधान दूव कारकदयसमुच्चयविधाने वाक्यभेदो न भवेत् । न च चकारः समुच्चयं प्राधान्येन ब्रूते । परोपसर्जनत्वेनैवाभिधानात् । अतएव दशमे भाष्यकारैश्वकारस्य समुच्चयशब्दाद्वैलक्षण्यं प्रतिपादितम् । समुच्चयशब्दो हि तं प्राधान्धेन ब्रूते, न चकारः । प्रधानस्य विशेष्यस्य अनेकेति । अनेकेषां विशेषणानां संग्राहकत्वात् सम्बन्धजनकत्वादित्यर्थः । चकारस्येति शेषः । कारकदयसमुच्चयविधाने इत्यत्रायं हेतुः । दृष्टान्तमाह आरुण्येति । अरुण्यैकहायन्या पिङ्गाक्ष्या सोमं क्रोणातीति श्रुतौ यथा आरुण्यादिविशेषणानामेकस्यां गवि समुच्चयविधाने न वाक्यभेदस्तथेत्यर्थः । कास्कदयेति । दान कारकवयेत्यर्थः । वाक्यमेदो न भवेदिति । तथाच यदि समुच्चयश्व कारवाच्यः स्यात्तदा होमोद्देशेन विप्रजापतिरूपसम्प्रदानहितयसमुच्चयविधानान्न वाक्यभेदसम्भवः । नानाविशेषणविशिष्टस्य विशेष्यीभूतसमुच्चयस्यैकस्यैव विधेयत्वादिति भावः । सम्प्र परन्तु चकारो विशेष्यभावेन न समुच्चयबोधकः । इतरविशेषणभावेनैव तहोधकबादित्याह न चेति । परोपसज्जनत्वेन अन्यदीयगुणत्वेनः । श्रप्राधान्धेनेति यावत् । समुच्चयं ब्रूते इत्यन्वयः । तथाच चकारेण अग्निप्रजापतिरूपसम्प्रदानद्दय सम्बन्धि समुच्चयो नबोध्यते । किन्तु समुचितोऽग्निः प्रजापतिरिति बोध्यत इति भावः । एतत्साधकतया दशमाध्यायटतीयपादोक्तं भाष्यकार वाक्यमुद्धरति श्रतएवेति । वैलक्षण्यं विलक्षणार्थत्वम् । समुच्चयशब्दो हि तमित्यादि । एतच्च भाष्यकार वाक्याभिप्रायमूलकं स्ववाक्यम् । न त्वविकलमेव भाष्यकारवाक्यम् । भाष्यकारास्तेवमाहः - चशब्दः समुच्चयार्थी भवति न तु समुच्चयस्य निर्देशकः । परपदविशेषणार्थन्तु समुच्चयमुपादत्ते । यदि हि निर्दिशेत् क्रियागुणैः समुच्चयः सम्बध्यते । समुचयः शोभनः समुच्चयो द्रष्टव्य इति यथा भवति एवं च शोभनः च द्रष्टव्य इति वा भविष्यति । तथा यथेह समुच्चययोः षष्ठी भवति धवखदिरयोः समुच्चय इति । एवं धवः खदिरश्चेत्यत्रापि अभविष्यत् । न तु भवति । तस्मान्न चशब्दः समुचयं निर्दिशतौति । तात्पर्यमा दायाह समुच्चयशब्दो होति । तं समुच्चयम् । प्राधान्येन विशेष्यरूपेण । For Private And Personal

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474