________________
Shri Mahavir Jain Aradhana Kendra
२२०
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
प्रधानस्यानेकविशेषण- सङ्ग्राहकत्वादारुण्यादिविशिष्ट कय विधान
दूव कारकदयसमुच्चयविधाने वाक्यभेदो न भवेत् । न च चकारः समुच्चयं प्राधान्येन ब्रूते । परोपसर्जनत्वेनैवाभिधानात् ।
अतएव दशमे भाष्यकारैश्वकारस्य समुच्चयशब्दाद्वैलक्षण्यं प्रतिपादितम् । समुच्चयशब्दो हि तं प्राधान्धेन ब्रूते, न चकारः ।
प्रधानस्य विशेष्यस्य अनेकेति । अनेकेषां विशेषणानां संग्राहकत्वात् सम्बन्धजनकत्वादित्यर्थः । चकारस्येति शेषः । कारकदयसमुच्चयविधाने इत्यत्रायं हेतुः । दृष्टान्तमाह आरुण्येति । अरुण्यैकहायन्या पिङ्गाक्ष्या सोमं क्रोणातीति श्रुतौ यथा आरुण्यादिविशेषणानामेकस्यां गवि समुच्चयविधाने न वाक्यभेदस्तथेत्यर्थः । कास्कदयेति । दान कारकवयेत्यर्थः । वाक्यमेदो न भवेदिति । तथाच यदि समुच्चयश्व कारवाच्यः स्यात्तदा होमोद्देशेन विप्रजापतिरूपसम्प्रदानहितयसमुच्चयविधानान्न वाक्यभेदसम्भवः । नानाविशेषणविशिष्टस्य विशेष्यीभूतसमुच्चयस्यैकस्यैव विधेयत्वादिति भावः ।
सम्प्र
परन्तु चकारो विशेष्यभावेन न समुच्चयबोधकः । इतरविशेषणभावेनैव तहोधकबादित्याह न चेति । परोपसज्जनत्वेन अन्यदीयगुणत्वेनः । श्रप्राधान्धेनेति यावत् । समुच्चयं ब्रूते इत्यन्वयः । तथाच चकारेण अग्निप्रजापतिरूपसम्प्रदानद्दय सम्बन्धि समुच्चयो नबोध्यते । किन्तु समुचितोऽग्निः प्रजापतिरिति बोध्यत इति भावः ।
एतत्साधकतया दशमाध्यायटतीयपादोक्तं भाष्यकार वाक्यमुद्धरति श्रतएवेति । वैलक्षण्यं विलक्षणार्थत्वम् । समुच्चयशब्दो हि तमित्यादि । एतच्च भाष्यकार वाक्याभिप्रायमूलकं स्ववाक्यम् । न त्वविकलमेव भाष्यकारवाक्यम् । भाष्यकारास्तेवमाहः -
चशब्दः समुच्चयार्थी भवति न तु समुच्चयस्य निर्देशकः । परपदविशेषणार्थन्तु समुच्चयमुपादत्ते । यदि हि निर्दिशेत् क्रियागुणैः समुच्चयः सम्बध्यते । समुचयः शोभनः समुच्चयो द्रष्टव्य इति यथा भवति एवं च शोभनः च द्रष्टव्य इति वा भविष्यति । तथा यथेह समुच्चययोः षष्ठी भवति धवखदिरयोः समुच्चय इति । एवं धवः खदिरश्चेत्यत्रापि अभविष्यत् । न तु भवति । तस्मान्न चशब्दः समुचयं निर्दिशतौति ।
तात्पर्यमा दायाह समुच्चयशब्दो होति । तं समुच्चयम् । प्राधान्येन विशेष्यरूपेण ।
For Private And Personal