________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः
यदि हि प्राधान्येन ब्रूयात् तदा तत्प्रतिपत्रः समुच्चयः कियागुणैः सम्बध्येत । समुच्चयः शोभन: समुच्चयो द्रष्टव्य इतिवत् च शोभन:, च द्रष्टव्य इति प्रयोगः स्यात् । समुच्चयशब्दवच्चकारस्य प्राधान्येन समुच्चयवाचित्वे धवखदिरयोः समुच्चय इतिवत् धवखदिरयोथ इत्यपि प्रयोगः स्यादिति ।
अतश्चकारः समुच्चयं प्राधान्येन न ब्रूते। येन प्रधानस्यैकस्य विधानान वाक्यभेदो भवेत्। किन्तु कारकहयोपसर्जनलेनैव स तं ब्रूते। समुचितोऽग्निः प्रजापतिरिति प्रधानदयविधाने वाक्यभेदः स्यादेव। यथा. ग्रहोद्देशेन सम्मासुकत्वविधाने ।
ब्रूते बोधयति । यदि हि निर्दिशदित्यस्य भाष्यांशस्यार्थ कथनं यदि हि प्राधान्यन ब्रयादिति । तत्प्रतिपद्रश्चकारवाच्यः । समुच्चयस्य गुणसम्बन्धं दर्शयति समुच्चयः शोभन इति । हरिहरयोः समुच्चयः शोभन इत्यादावित्यर्थः । क्रियासम्बन्धं दर्शयति समुच्चयो द्रष्टव्यः इति । भाष्ये यथैवंशब्दाभ्यां सादृश्यं दर्शितम् । ग्रन्थकता तु इतिवदित्युक्तम् । भाष्ये एवं धवः खदिरश्चेत्यत्रापि अभविष्यदित्युक्त्या षष्ठीप्रयोगसम्भावना दर्शिता, ग्रन्थकता पुनविखदिरयोवेति षष्ठीप्रयोग एव कृतः । इति एवम्प्रकारेण वैल क्षण्यं प्रतिपादितमित्यन्वयः ।
अत: एतद्भाष्यकारवाक्यात् । प्रधानस्य प्रधानीभूत चकारार्थस्य समुच्चयस्येति यावत् । कारकहयेति। कारकह यस्य सम्प्रदान कारक दयस्य उपसज्जनत्वेन गुणभावनेत्यर्थः । स चकारः। तं समुच्चयम्। समुच्चयस्य गुणभूतत्वं प्रतिपादयति समुच्चित इति । प्रधानइयेति । प्रधानीभूतदेवतायविधाने इत्यर्थः । वाक्य मेद इति। विधेयभेदादिति भावः । विधेयभेदैन वाक्यभेद दृष्टान्तमुपन्यस्यति यथेति । सम्मागैकत्वविधाने इति। ग्रहं सम्मा त्यत्र एकत्वविवक्षणे सम्मार्गस्येव एकत्वस्यापि प्रमाणान्तराप्राप्तत्वेन विधेयत्वावश्यकत्वादिति भावः ।
ननु चकारस्य समुच्चयार्थत्वमप्राधान्येन समुच्चयबोधकत्वमित्यत्र प्रमाणं नास्ति । भाष्यकारैस्तु चशब्द: समुच्चयार्थो न तु समुच्चयस्य निर्देशक इत्यनेन चकार: समुच्चयद्योतको न तु समुच्चयवाचक इत्येवोक्तम् । अतएवाहु:
For Private And Personal