________________
Shri Mahavir Jain Aradhana Kendra
२२२
www.kobatirth.org
न्यायप्रकाशः 1
Acharya Shri Kailashsagarsuri Gyanmandir
यद्यपि चकारः समुचयं प्राधान्येन ब्रूयात् तथापि तस्य कारकइयं प्रति प्राधान्यमनुपपन्नम् । विभक्त्याभिहितस्य कारकयस्य क्रियोपसर्जनत्वेन समु योपसर्जनत्वाभावात् । हृदन्तादिः शब्दैरुपस्थितं हि कारकं क्रियातोऽन्येन सम्बध्यते कारकसमुच्चयः
निपाताचादयो या उपसर्गास्तु प्रादयः ।
द्योतकत्वात् क्रियायोगे लोकादवगता इसे ॥ इति ।
वाचकत्वे यथा समुच्चयशब्दप्रयोगे समुच्चयः शोभन इत्यादिक्रियादिसम्बन्धः स्यात्तथा चकारप्रयोगेऽपि भवितुमर्हतीति दूषणमपि दर्शितः । तस्माच्चकारः प्राधान्येन समुचयं न ब्रूते इति भाष्याभिप्रायवर्णनमनुचितम् । समुच्चयद्योतनञ्च गुणभावेन प्रधानभावेन च सम्भवतीत्यत चाह यद्यपीति । चकारस्य प्राधान्येन समुच्चयविधकत्वाभ्युपगमेऽपि न भवदभिमतार्थसिद्धिरिति भावः ।
:
कारकक्ष्यं सम्प्रदानकारकइयम् । प्राधान्यमनुपपन्नमिति । तथाच यदि सम्प्रदानइयं प्रति चकारस्य प्राधान्येन रुमुच्चयबोधकत्वं स्यात् तदा होमानुवादेन सम्प्रदानवितय समुच्चयस्य विधेयतया वाक्यभेदो न स्यादिति भवदभिमतम् । परन्तु चकारस्याच विशेष्यभावेन समुच्चयबोधकत्वमेवानुपपन्नमित्यप्रधानभावेनैवाचागल्या समुच्चयबोधकत्वं वक्तव्यमिति वाक्यभेदी दुवार एवेति भावः ।
1
विशेष्यभावेन समुच्चयबोधकत्वानुपपत्ती हेतुमाह विभक्त्येति । चतुर्थीविभक्त्येत्यर्थः । क्रियोपसज्जनत्वेन क्रियां प्रति गुणीभूतत्वेन । कारकमात्रस्य क्रियां प्रति गुणीभूतत्वादिति भावः । समुच्चयोपसर्जनत्वेति । तथाच कारकस्य समुच्चयांशे विशेषणत्वसम्भव एव समुच्चयस्य विशेष्यत्वसम्भवः । कारकस्य समुच्चयांशे विशेषणत्वमेव न सम्भवेत् । अन्यविशेषणत्वेन प्रतीयमानस्यान्यविशेषणत्वेन भानानभ्युपगमात् । अतः समुच्चयस्यैव
कारकांशे विशेषणत्व प्राप्तप्रा न प्राधान्यमुपपद्यत इति भावः ।
नमु होमे सम्प्रदानय समुच्चय इत्युक्तो यथा सम्प्रदानइयस्य समुचयोपसज्जनत्वं तथा विभक्तापनी सम्प्रदानवयस्यापि समुचयोपसर्जनत्वं सुघटमित्यत आह कदन्तादिशब्देरिति । क्रियातोऽन्येन क्रियेतरेण । कदन्तशब्दा पस्थित कारकस्य क्रियासम्बन्धाभावेन समुचयोपसंनत्वमुदाहरति कारकसमुच्चय इति । विभक्कापनीत कारकस्य तु क्रियोप
For Private And Personal