________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः 1
Acharya Shri Kailashsagarsuri Gyanmandir
करणसमुच्चय इति । विभक्त्याभिहितन्तु क्रिययैव । कारकाणां
तयैवान्वयात् ।
अतश्चकारेणोच्यमान: स कारकोपसर्जनत्वं वोच्येत । कारकदयञ्च प्रधानम् एकोदेशेन च प्रधानदयविधाने वाक भेद
एव । यथाहु:
अनेकपदसम्बद्धं यद्येकमपि कारकम् ।
तथापि तदनावत्तैः प्रत्ययैर्न विधीयते ॥ इति ।
२२३
For Private And Personal
समत्व नियमादन्योपसर्जनत्वं न स्यादित्याह विभक्त्येति । क्रिययैवेति । सम्बध्यत इति पूर्वेणान्वयः । कारकाणां विभक्तप्रपनीतानामिति शेषः । तयैव क्रिययैव । एवकारेण
अन्धेन सह गुणभावेनान्वयाभाव इति दर्शितम् ।
श्रत इति । यतो विभक्तयभिहितकारकस्य क्रियायांमेव गुणभावेनान्वयात् समुच्चयगुणभावानुपपच्या चकारस्य विशेष्यतया समुच्चयबोधकत्वं बाधितमत इत्यर्थः । स ससु शयः । कारकोपस नत्वेन सम्प्रदानकारकषयं प्रत्यप्रधानभावेन तद्गुणभावेनेति यावत् । प्रधानं विशेष्यम् । तथाच समुचितोऽमि प्रजापतिरिति बोध इति भावः । एकहोमोद्देशेन तथाविधप्रधानदय विधाने वाक्यभेदो दुष्परिहर इत्याह एकोद्देशेनेति । अत्रैव भट्टपाद संवादमाह यथाहुरिति ।
अनेकेति । यदि एकमपि कारकं सम्प्रदान कारकम् अनेक पद सम्बद्धम् अग्निपदसम्बद्धं प्रजापतिपदसम्बद्धञ्च भवेत् तथापि अनाहतैः सकृदुचरितैः प्रत्ययैस्तद्दन्तु न विधीयते वृत्यर्थः । तथाच अग्नये च प्रजापतये च जुहोतीत्यत्र अग्रौषोमाविव प्रत्ययानाद्यत्त्या प्रजापतीन विधेयौ सम्प्रदानकारकस्य अनेकपदगतत्वात् । किन्तु अद्मये जुहोति प्रजापतये जुहोतोति प्रत्ययावस्था विधेयाविति भावः ।
ज्योतिष्टोमदत्तिणायां श्रूपते गौश्वाश्वश्वाश्वतरश्च गर्दभश्च अजाश्वावयव ब्रोहयश्च यवाश्च तिलाव माषाश्च तस्य दादशशतं दक्षिणेति । तत्र ऋत्विग्भ्यो दक्षिणां ददातीति श्रुतिप्राप्त दक्षिणामनूद्य गवादिद्रव्यमात्रविधानम् । तत्र यथा परस्परनिरपेक्षाणां विधेयत्वाभ्युपगमे वाक्यभेदापत्तिः । चकारश्रुतिबलात् परस्परसापेचाणां विधानात्तु नास्येव