________________
Shri Mahavir Jain Aradhana Kendra
३२४
www.kobatirth.org
न्यायप्रकाशः |
Acharya Shri Kailashsagarsuri Gyanmandir
यच यथा दक्षिणानुवादेव गवादीनामनेकेषां विधाने न वाक्यभेदस्तथा कारकहयविधानेऽपीति । तन्न नहि गौश्वाखश्वेत्यस्मिन् वाक्ये दक्षिणानुवादेन गवादयो विधीयन्ते, उक्तरीत्या 'वाक्यभेदापत्तेश्वकारल्या कथञ्चित्परिहारेsपि गवादीनामनेकेषां द्वादशशतसङ्ख्यायाश्च विधाने वाक्यभेद एव । श्रध्वय्यैवशाखायां गौवत्यादेः तस्य द्वादशशतमित्यन्तस्य सहश्रुतत्वेन च अस्यैकवाक्यत्वमित्युक्तं दशमे ।
अतोऽनेन वाक्येनोभयविशिष्टदक्षिणैव विधीयते । विशिष्ट
वाक्य मेदः । तथा अग्नये च प्रजापतये चेति चकारश्रुतेनं वाक्यमेद इति तत्प्रख्यशास्त्रं विधिरेव न मन्त्र इति केषाञ्चिदादिनां प्रागुपन्यस्तमतमपाकर्तुमाह यच्चेति ।
अनेकेषां परस्परसापेक्षाणां गवादीनाम् । तथा कारकइति । तचापि चकारश्रुतेः सापेक्षदेवतात्वप्रतौवेरिति भाव: । तन्मतापाकरये दृष्टान्तासिद्धिं हेतुमाह नहीति । जनु तन्मते चकारश्रुतेः समुच्चयावगमात् समुच्चयस्यैकस्यैव विधानात् कथं वाक्यभेद इत्यत आह चकारेति । कथञ्चिदिति । क्रियोपसर्जनस्य कारकस्य समुचयोपसर्जनत्वानौचित्यदोषाङ्गीकारेणेत्यर्थः । परिहारेऽपीति । वाक्यइयापतेरित्यन्वितम् । गवादिद्रव्यदक्कतवाक्यभेदापत्तेः परिहारेऽपौत्यर्थः । गवादीनामिति । गवादीनां समुच्चयस्य गोगलद्वादशशतसङ्ख्यायाश्चेति पदार्थइयविधानात् वाक्यभेदी दुष्परिवर इति भावः ।
ननु तस्य दादशशतमिति वाक्यान्तरमेव । वाक्यान्तरेच पदार्थान्तरविधाने कुतो वाक्यभेदापादनम् | एकस्मादाक्यादेकपदार्थ विधानसम्भवे यदि वाक्यदयं परिकरूप्य पदार्थrयं विधीयेत तदैव वाक्यभेदो दोषायेत्यतस्तस्या पृथक् वाक्यत्वं प्रतिपादयति श्रध्वर्यवेति । सहश्रुतत्वेन पृथक्तत्वेन । स्वादशशतमित्यन्तस्य । दशमे दशमाध्यायतीयपादे |
ननु भवत्वेकमेवेदं वाक्यं तथापि तस्मादेकपदार्थ विधानासम्भवादगत्या तत्तद्द्रव्याणां या विधानाय वाक्यभेदो न दोषाय स्यादित्यत एकपदार्थ विधानसम्भवं दर्शयति अत इति । दक्षिणैवेति 1 तयाच दक्षिणाया अनुवाद्यत्वाभ्युपगमे वाक्यभेद श्रापद्यते ।
For Private And Personal