Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १, मूलं -६, [भा. ११७६ ]
[भा. ११७६] समोसरणे केवइया, रूव पुच्छ वागरण सोयपरिणामे । दानं च देवमल्ले, मल्लाणयणे उवरि तित्थं ।
३१३
वृ-समवसरणविषयो विधिर्वक्तव्यः । “केवइय” त्ति कियतो भूमागाद् अपूर्वसमसरणे अदृष्टरूपतया भगवतः प्रयोजनम् ? इति पृच्छा प्रतिवचनं च वाच्यम् । “वागरणं” ति व्याकरणं भगवतो वक्तव्यम्, यथा युगपदेव सङ्ख्यातीतानामपि पृच्छतां व्याकरोति । तथा श्रोतृषु परिणामः श्रोतृपरिणामः स वक्तव्यः, तथा भागवती वाणी सर्वेषां स्वस्वभाषया परिणमते । वृत्तिदानं प्रीतिदानं वा कियत् प्रयच्छन्ति चक्रवर्त्तादयस्तीर्थकरप्रवृत्तिनिवेदकेभ्यः ? । तथा 'देवमालंय' बलि, देवा अपि तत्र गन्धादि प्रक्षिपन्तीति कृत्वा तत् कः कथङ्कारं करोति ? इति । “मल्लाणयणे”त्ति तस्य च माल्यस्यानयने यो विधि । “उवरि तित्थं "ति उपरि प्रथमपौरुष्यां व्यतीतायां 'तीर्थं' प्रथमगणधरो धर्मदेशनां करोति । तदेतत् सर्वमभिधातव्यमिति द्वारगाथासङ्क्षेपार्थः ॥ अथैनामेव प्रतिद्वारं विवरीषुराह
[भा. ११७७] जत्थ अपुव्वोसरणं, जत्थ व देसो महिड्डिओ एइ । वाउदय पुप्फ वद्दल, पागारतियं च अभिओगा ॥
कृ- 'यत्र' क्षेत्रे समवसरणम् 'अपूर्वम्' अवृत्तपूर्वं य वा भूतपूर्वसमवसरमेऽपि देवो महर्द्धिको वन्दितुम् 'एति' आगच्छति तत्र नियमतः समवसरणं भवतीति वाक्यशेषः, अर्थादापन्नम् अन्यत्र नियम इति । तच्च कथं कुर्वन्ति ? इत्याह- “वाउदय' इत्यादि । शक्रादेः सम्बन्धिन आभियोग्या देवाः स्वस्वामिनो नियोगाद् भगता समवसरिष्यमाणां भुवमागम्य योजनपरिमण्डलं संवर्त्तकवातं विकुर्वन्ति, तेन च सर्वतः प्रसर्पता रेणु-तृण-काष्ठादिकः कचवरनिकरः सर्वोऽपि बहि क्षिप्यते, ततो भाविरेणुसन्तापोपशान्तये उदकवर्दलं विकुर्व्य तेन सुरभिगन्धोदकवर्षं कुर्वन्ति, ततः पुष्पवर्दलं विकुर्व्य जानुदध्नीमधोनिक्षिप्तवृन्तां पुष्पवृष्टिं निसृजन्ति, ततश्चामी प्राकारत्रयं कुर्वन्ति ॥ कथम् ? इत्याह
[भा. ११७८] अब्भितर- मज्झ - बहिं, विमाण - जोइ-भवणाहिवकयाओ । पायारा तिनि भवे, रयणे कणगे रयए य ॥
कृ- आभ्यन्तर-मध्यम- बाह्या यथाक्रमं विमान - ज्योतिर्भवनाधिपकृताः प्रकारास्त्रयो भवन्ति तत्राभ्यन्तरः प्राकारो रत्नेर्निवृत्तः 'रात्नः'-रत्नमयः, तं विमानाधिपतयः कुर्वन्ति । मध्यमः प्राकारः ‘कानकः’ कनकमयः, तं ज्योतिष्का देवाः कुर्वन्ति । बाह्यः प्राकारः 'राजतः' रूप्यमयः, तं भवनाधिपतयः कुर्वन्तीति ॥
[भा. ११७९] मणि-रयण - हेमया विय, कविसीसा सव्वरयणिया दारा । सव्वरयणामय च्चिय, पडाग - झय-तोरणा चित्ता ॥
वृ- आभ्यन्तरप्राकारस्य मणिमयानि कपिशीर्षकाणि, मध्यमप्रकारस्य रत्नमयानि । अथ मणीनां रत्नानां च कः प्रतिविशेषः ? उच्यते-चन्द्रकान्तादयो मणयः, इन्द्रनीलादीनि रत्नानि; अथवा स्थलसमुद्भवा मणयः, जलसमुद्भवानि रत्नान्युच्यन्ते । बाह्यप्राकारस्य हेममयानि - जात्यसुवर्णमयानि कपिशीर्षकाणि । एतानि च यथाक्रमं वैमानिक ज्योतिष्क- भवनपतयः स्वस्वप्राकारेषु कुर्वन्ति । प्राकारत्रयेऽपि प्रत्येकं सर्वरत्नमयानि चत्वारि चत्वारि द्वाराणि, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532