Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 486
________________ उद्देशक : १, मूलं -६, [भा. १९१३] ४८३ गीतार्थं मुक्त्वा अगीतार्थेन कारयति चत्वारो मासा अनुद्धाताः । कुशलं विहायाकुशलेन कारयति चत्वारोऽनुद्धा मासाः । यत एवमतः कुशलेन चिकित्साकरणमनुज्ञातम् ॥ अथ वैद्यसमीपं गच्छतां विधिमभिधित्सुराह [भा. १९१४] चोयगपुच्छा गमने, पमाण उवगरण सउण वावारे । संगारो य गिहीणं, उवएसो चेव तुलना य ॥ वृ-प्रथमतो नोदकपृच्छा वक्तव्या, ततो गमनं वैद्यसकाशे साधूनाम्, ततस्तेषामेव प्रमाणम्, तत उपकरणम्, ततः शकुनाः, तदननत्रं वैद्यस्य 'व्यापारः' प्रशस्ता ऽप्रशस्तरूपः, ततः ‘सङ्गारः ’ सङ्क्रतो गृहिणां पश्चात्कृतादीनां यथा कर्त्तव्यः, ततो वैद्येनौपधादिविषय उपदेशो यथा दीयते, ततस्तमुपदेशं श्रुत्वा यथा स्वयं तुलना कर्त्तव्या, तदेतत् सर्वमपि वक्तव्यमिति द्वारगाथासमासार्थः । अथ विस्तरार्थः प्रतिपाद्यते-तत्र प्रथमं नोदकपृच्छाद्वारम्, शिष्यः पृच्छति किं ग्लानो वैद्यसमीपं नीयताम् ? अथ वैद्य एव ग्लानसकाशमानीयताम् ? अत्र कश्चिदाचार्यदेशीयः प्रतिवचनमाह[ भा. १९१५ ] पाहुडिय त्ति य एगो, नेयव्वो गिलाणओ उ विजघरं । एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा ॥ वृ- 'एकः' कश्चित् प्राह-वैद्ये ग्लानान्तिकमानीयमाने 'प्राभृतिका' वक्ष्यमाणलक्षणा भवति, तोलान एव वैद्यगृह नेतव्यः । इत्थमाचार्यदेशीयेनोक्ते सूरिराह एवं 'तत्र' ग्लाननयनविषये भणतो भवतश्चत्वारो मासा गुरुका भवन्ति ॥ केयं पुनः प्राभृतिका ? इत्यत आह [ भा. १९१६ ] रह-हत्थि जान-तुरएअनुरंगाईहि इंति कायवहो । आसन मट्टिय उदए, कुरुकुय सघरे उ परजोगो ॥ वृ-रथ- हस्तिनौ-प्रतीतौ यानं-शिबिकादिकं तुरगः-प्रसिद्धः अनुरङ्गा- गन्त्री एतैः आदिशब्दादपरेण वा विच्छर्देन ‘आयाति’ आगच्छति वैद्ये कायानां पृथिव्यादीनां वधो भवति । तथा समायातस्यासनं दातव्यम् । ग्लानस्य च शरीरे परामृष्टे व्रणादिपाटने वा कृते कुरुकुचाकारापणे मृत्तिकाया उदकस्य च वधो भवति । तथा समायातस्यासनं दातव्यम् । ग्लानस्य च शरीरे परामृष्टे व्रणादिपाटने वा कृते कुरुकुचाकारापणे मृत्तिकाया उदकस्य च वधो भवति । स्वगृहे तु परयोगो भवति, परप्रयोगेण सर्वमपि भवति न साधूनां किमप्यधिकरणं भवतीत्यर्थः । एषा प्राभृतिका वैद्ये ग्लानसमीपमानीयमाने यतो भवति ॥ अतः किम् ? इत्याह[भा. १९१७] लिंगत्थमाइयाणं, छण्हं वेज्राण गम्मऊ मूलं । संविग्गमसंविग्गे, उवस्सगं चेव आनेजा ॥ वृ-लिङ्गस्थादीनां षन्नामपि वैद्यानां गृहं ग्लानं गृहीत्वा गम्यताम् नैते उपशार्यमानेतव्याः, अधिकरणदोषभयात्। संविग्नोऽसंविग्नश्च एतौ द्वाप्युपाश्रयमेवानयेत्, दोषाभावात् ॥ एवं परेणोक्ते सूरिराह [भा.१९१८] वाता-ऽऽतवपरितावण, मयपुच्छा सुत्र किं सुसानकुडी । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532