Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 484
________________ उद्देशक : १, मूलं -६, [भा. १९०४ ] द्रव्यमुत्पाद्यस्थापयेत् । ये तु ग्लानस्य प्रतिचरकास्ते यदि ग्लानकार्यव्यापृताः परक्षेत्रं वा व्रजन्तः स्वार्थमहिण्डमाना न संस्तरन्ति तत एषणादिदोषेषु पञ्चकपरिहाणियतनया गृह्णन्ति ॥ यत् तद् ग्लानार्थं रिवास्यते तत् कीध्शे स्थाने स्थाप्यते ? इत्याह [भा. १९०५] उव्वरगस्स उ असती, चिलिमिणि उभयं च तं जह न पासे । तस्सऽ सइ पुराणादिसु, ठविंति तद्दिवस पडिलेहा ॥ वृ- कृतयोगिना गीतार्थेन वा तद् अन्यस्मिन् गृहापवरके स्थापनीयम् । अथ नास्ति पृथगपवरकस्ततो वसतावेव योऽपरिभोग्यः कोणकस्तत्र चिलिमिलिकया आवृत्त्य 'उभयं’ ग्लाना-ऽगीतार्थलक्षणं यथा न पश्यति तथा स्थाप्यम् । यदि ग्लानस्तत् पश्यति तदा स यदा तदा तस्याभ्यवहारं कुर्यात् । अगीतार्थस्य तु तद् दृष्ट्वा विपरिणामा ऽप्रत्यवादयो दोषा भवेयुः । "तस्सऽ सइ "त्ति 'तस्य' अपरिभोग्यस्थानस्याभावे पुराणः पश्चात्कृतस्तस्य गृहे दिशब्दाद् मातापितृसमानेषु गृहेषु स्थापयन्ति । तस्य च तत्र स्थापितस्य तद्दिवसं प्रत्युपेक्षणा कर्त्तव्या । तद्दिवसं नाम प्रतिदनम् । यदुक्तं देश्याम्-तद्दिवसं अनुदिअहे इति ।। अथ " आनेउं दोहि वी कुज्जा" इत्यस्यव्याख्यानमाह [ भा. १९०६ ] फासुगमफासुगेण व अचित्तेतर परित्तऽनंतेनं । आहार- तद्दिनेतर, सिहेण इअरेण वा करणं ॥ वृ- प्राशुकेन अप्राशुकेन वा अचित्तेन 'इतरेण वा' सचित्तन परीत्तेन अनन्तेन वा आहारेण अनाहारेण वा तद्दैवसिकेन 'इतरेण वा' परिवासितेन सस्नेहेन 'इतरेण वा' अस्नेहेन ग्लानस्य चिकितसायाः करणमनुज्ञातम ॥ गता ग्लानानुवर्त्तना । अथ वैद्यानुवर्त्तनामभिधित्सुः प्रस्तावनां रचयन्नाहविजं न चेव पुच्छह, जाणंता बिंति तस्स उवदेसो । [भा. १९०७] ४८१ दट्ठ- पिलगाइएसु व, अजानगा पुच्छए विजं ॥ वृ- ग्लानो ब्रूयात्-यूयं वैद्यं नैव पृच्छथ, आत्मच्छन्देनैव प्रतिचरणं कुरुथ । ततो यदि साधवो जानन्तः चिकितिसायां कुशलास्ततो ब्रुवते - अस्मार्वैद्यः प्रागेव पृष्टस्तस्यैवायमुपदेश इति । यद्वा प्रतिश्रयान्निर्गत्य किनयन्तमपि भूभागं गत्वा मुहूर्तमात्रं तत्र स्थित्वा समागत्य ब्रुवते - अयंवैद्येनोपदेशो दत्त इति । तथा दष्टं-सर्पडङ्क्रः पिलगं गण्डः आदिग्रहणेन शीतलिका दुष्टवातो वेत्यादिपरिग्रहः, एतेष्वपि यदि ज्ञास्ततः स्वमेव कुर्वन्ति । अथाज्ञास्ततो वैद्यं पृच्छन्ति ॥ अत्र शिष्यः पृच्छति [भा. १९०८] किह उप्पन्नो गिलाणो, अट्ठम उण्होदगाइया वुड्डी । किंचि बहु भागमद्धे, ओमे जुत्तं परिहरंतो ॥ वृ- 'कथं ? ' केन हेतुना ग्लान उत्पन्नः ? इति । सूरिराह-भूयांसः खलु रोगातङ्क्रा यद्वशाद् ग्लानत्वमुपजायते । तत्र “शुष्यतस्त्रीणि शुष्यन्ति, चक्षूरोगो ज्वरो व्रणः ।" इति वचनाद् यदि ज्वरादिको विशोषणसाध्यो रोगः ततो जघन्येनाप्यष्टमं कारयितव्यः । यच्च यस्य रोगस्य पथ्यं तत् तस्य कार्यम्, यथा- वातरोगिणो घृतादिपानं पित्तरोगिणः शर्कराद्युपयोजनं श्लेष्मरोगिणो 18 31 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532