Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
शैशव-तारुण्यादिकं 'धातुंच' वातादीनां धातूनामन्यतमो यस्तस्योत्कटो वर्त्तते तं 'चः' समुच्चये 'आहारम्' अल्पभोजित्वादिलक्षणम् अग्निबलं- जाठरो वह्निरस्य मन्दः प्रबलो वा इत्येवं धृतिबलंसात्त्विकः कातरो वाऽयमित्येवं तथा "समुई " ति प्रकृति सा च या यस्य जन्मतः प्रभृति तां च कथयन्ति ॥ अथोपदेशद्वारमाह[भा. १९२८]
४८६
कलमोदनो य खीरं, ससक्करं तुलियाइयं दव्वे ।
भूमिघरेट्टग खेत्ते, काले अमुगीइ वेलाए ॥
[भा. १९२९] इच्छानुलोम भावे, न य तस्सऽहिया जहिं भवे विसया । अहवन दित्तादीसुं, पडिलेमा जा जहिं किरिया ।।
वृ- अनन्तरोक्तंव्याधि-निदानादिकं श्रुत्वा वैद्यः स्वगृहस्थित एव द्रव्यादिभेदात् चतुर्विधमुपदेशं दद्यात् । तद्यथा-द्रव्यतः कलमशालिरोदनस्तथा क्षीरं च सशर्करमस्य दातव्यम्, तथा तूलिकायां शाययितव्यः, आदिशब्दाद् गोशीर्षचन्दनादिना विलेपनीय इत्यादि । क्षेत्रतो भूमिगृहे पक्केष्टकागृहे वाऽयं स्थापनीयः । कालतोऽमुकस्यां वेलायां प्रथमप्रहरादौ भोजनमयं कारणीयः ।
भावतो यदस्य स्वकीयाया इच्छाया अनुलोमम्- अनुकूलं तदेव कर्त्तव्यम्, नास्यज्ञा कोपनीयेति भावः, तथा यत्र 'तस्य' ग्लानस्य विषयाः 'अहिताः' अनिष्टाः क्रन्दित-विलपितादिरूपा गीतवादित्रगोचरा वा शब्दादयो न भवन्ति तत्र स्थापनीय इति शेषः । 'अहवण' त्ति अथवा 'हप्तादिषु' ६प्तचित्तप्रभृतिषु प्रतिलोमा क्रिया कर्त्तव्या । तत्र द्दप्तचित्तस्यापमानना, यथा अपमानादिनाऽपहृतचित्तस्य दर्पातिरेकज उन्मादः शाम्यति, क्षिप्तचित्तस्यापमानादिपोहृतचित्तस्य सम्मानना; यक्षाविष्टस्य तु यथायोगमपमानना सम्मानना वा विधेया; ज्वरादौ वा रोगे विशोषणादिका क्रिया या यत्र युज्यते सा तत्र विधेयेति ॥
अथ तुलनाद्वारमाह
[भा. १९३०] अपडिहणंता सोउं, कयजोगाऽलंभि तस्स किं देमो । जहविभवा तेगिच्छा, जा लंभो ताव जूर्हति ॥
वृ-वैद्येन दीयमानमुपदेशम् 'अप्रतिघ्नन्तः' तद्वचनमविकुट्टयन्तः श्रुत्वाऽऽत्मानं तोलयन्तिकिमेतत् कलमशाल्यादिकं लप्स्यामहे न वा ? इति । यदि विज्ञायते 'ध्रुवं लप्स्यामहे' ततो न किमपि भणन्ति । अथ न तस्य ध्रुवो लाभः ततो भणन्ति यथा युष्माभिरुपदेशो दत्तस्तथा वयं योगं करिष्यामः, परं यदि कृतेऽपि योगे न लभामहे ततस्तस्य किं दद्मः ? ; अपि च वैद्यकशास्त्रे 'यथाविभवा' विभवानुरूपा चिकित्सा भणिता, यस्य याध्शी विभूतिस्तस्य तदनुरूपैरौषधैः पथ्यैश्च चिकित्सा क्रियते इत्यर्थः; अतो यूयमपि जानीथ, यथा- अस्माकं सर्वमपि याचितं लभ्यते नायाचितम्, अतो यदा कलमशाल्यादिकं याच्यमानमपि न प्राप्यते तदा किं तादव्यम् ? इति । एवं वैद्योपदेशमपसर्पयन्तस्तावद् “जूहंति "त्ति देशीशब्दत्वाद् आनयन्ति यावद् यस्य द्रव्यस्य कोद्रव - कूरादेर्भुवः प्रतिदिनभावी लाभो भवतीति ॥
अथ तुलनामेव प्रकारान्तरेणाह
[भा. १९३१] नियएहि ओसहेहिं, कोइ भणेज्जा करेमऽहं किरियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532