Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 498
________________ उद्देशक : १, मूलं -६, [भा. १९६४ ] ४९५ अथ वैद्यस्य दानं दातव्यं तत्र विधिमाह [ भा. १९६५ ] आगंतु पउण जायण, धम्मावण तत्थ कइयदिट्टंतो । पासादे कूवादी, वत्थुक्कुरुडे तहा ओही ।। वृ- ग्लाने प्रगुणे जाते सति आगन्तुकवैद्यो यदा दक्षिणां याचते तदा तस्यानुशिष्टिर्दातव्यायथा न वर्त्तते यतीनां हस्ताद् वेतनकं ग्रहीतुम्, मुधाकृतममीषां बहुफलं भवति, अपि च 'धर्मापणः ' धर्मव्यवहरणहट्टोऽयमस्माकम्, अतो यदत् सम्भवति तदेव ग्रहीतव्यम् । क्रयिकध्ष्टान्तश्च तत्रोच्यते । यथा- केनचित् क्रयिकेण गान्धिकापणे रूपकान् निक्षिप्य भणितम्-ममैतैः किञ्चिद् भाण्डजातं दद्याः । ततः सोऽन्यदा तत्रापणे मद्यं मार्गयितुं लग्नः । वणिजा प्रोक्तः - ममापणे गन्धपण्यमेव व्यवहियते, नास्ति मम मद्यम्, अतस्त्वं गन्धपण्यं गृहाणेति । एवमस्माकमपि धर्मापणाद् धर्मं गृह्णातु भवान्, नास्ति द्रविणजातम् ।। इत्युक्ते यदि नोपरमते ततः शैक्षेण प्रव्रजता यद् निकुञ्जादिषु परिष्ठापितं तदानीय दीयते । तस्याभावे यद् उत्सन्नस्वामिकं कापि प्रासादे कूपे वा आदिशब्दाद् निर्धमनादिषु वा निधानं तथा शटितपतितं यद् वास्तु-गृहं तद् उत्कुरुटमिवेति कृत्वा वास्तूत्कुरुटमुच्यते तत्र वा यद् निधानं तद् अवधिज्ञानिन उपलक्षणत्वाद् दशपूर्विप्रभृतीनां वा पार्श्वे पृष्टवा ततः प्रासादादिस्थानादानीय वैद्यस्य दातव्यम् ॥ वास्तव्यवैद्यस्य दानविधिमाह [भा. १९६६ ] वत्थव्व पउण जायण, धम्मादानं पुनो अनिच्छंते । सच्चैव होइ जयणा, रहिए पासायमाईया ॥ वृ- प्रगुणीभूते ग्लाने वास्तव्यवैद्योऽपि यदि याचनं कुरुते ततस्तस्यापि धर्म एवादानं-द्रव्यं तद्दातव्यम् । “पुनो अनिच्छंते" त्ति 'पुनः' भूयो भूयः प्रज्ञाप्यमानोऽपि यदि धर्मादानं नेच्छति तदा पश्चात्कृतादिभिर्गृहस्थै रहिते सैव प्रासादादिका यतना कर्त्तव्या या अनन्तरगाथायामभिहिता ॥ द्वयोरप्यागन्तुक - वास्तव्यवैद्ययोरुपधिं याचतोर्विधिमाह [भा. १९६७ ] उवहिम्मि पडगसाडग, संवरणं वा वि अत्थुरणगं वा । दुगभेदादाहिंडणऽनुसट्ठि परलिंग हंसाई ।। वृ- ‘उपधौ' उपकरणे ‘पटशाटक:' परिधानं 'संवरणं' प्रच्छदपटः ' आस्तरणं' प्रस्तरणकं तूली वा यद्येतानि मार्गयति ततस्तथैव धर्मापणध्ष्टान्तः क्रियते । अथ नोपरमते ततो द्विकंसाधुयुग तल्लक्षणो यो भेदः-प्रकारसतेन आदिशब्दाद् वृन्देन वा हिण्डित्वा पटशाटकादिकमुत्पाद्य वैद्यस्य प्रयच्छन्ति । अथ सर्वथैव न प्राप्यते ततोऽनुशिष्टिः- धर्मकथादीनि प्रयोक्तव्यानि । तथाऽप्यनुपरतस्य परलिङ्गं कृत्वा हंसादिप्रयोगेणोत्पाद्य प्रयच्छन्ति ॥ द्वितीयपदे न दद्यादपि, यत आह [भा. १९६८ ] बिइयपदे कालगए, देसुट्ठाणे व बोहिगाईसु । असिवाई असईइ व, ववहारऽपमाण अदसाई ॥ कृ- द्वितीयपदे वैद्ये ग्लाने वा कालगते सति वस्त्रादिकं न दय्दादपि । यद्वा बोधिकाः- म्लेच्छास्तेषाम् आदिशब्दात् परचक्रस्य वा भयेन 'देशस्योत्थाने' उद्वसीभवने । अशिवे वा आदिग्रहणाद् दुर्भिक्षे Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532