Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 499
________________ ४९६ बृहत्कल्प-छेदसूत्रम् -१-१/६ राजद्विष्टे वा साते सति । 'असति वा' सर्वथैव स्त्राणामलाभे व्यवहारः क्रियते, व्यवहारेण च निर्जितस्य नप्रयच्छन्ति, व्यवहारेणवा कारणिकैर्दाप्यमानाःप्रमाणहीनानि अदशाकानि' वस्त्राणि दर्शयन्ति-अस्माकमीशान्येव स्वाधीनानि न सन्ति ।। अथ द्रविणजातं मार्गयति वैद्य विधिमाह[भा.१९६९] कव्वड्डुगमादी तंबे, रुप्पे पीते तहेव केवडिए। हिंडण अनुट्ठादी, पूइयलिंगे तिविह भेदो। वृ-कपर्दकादयोमार्गयित्वा तस्य दीयन्ते।ताम्रमयंवा नाणकंयव्यवह्रियते, यथा-दक्षिणापथे काकिणी । रूपमयं वा नाणकं भवति, यथा-भिल्लमालेद्रम्मः। पीतं नामसुवर्णं तन्मयं वा नाणकं भवति, यथा-पूर्वदेशे दीनारः । 'केवडिको नाम' यथा तत्रैव पूर्वदेशे केतराभिधानो नाणकविशेषः । एतेषामप्युत्पादनं कुर्वता सङ्घाटकेन वृन्देन वा हिण्डनं तथैव कर्त्तव्यम् । अलब्धेऽनुशिष्टयादीनिप्रयोक्तव्यानि। लिङ्गमितिपदं व्याख्यायते-पूजितम्-अर्चितं यल्लिङ्गं तत्र त्रिविधो भेदः कर्तव्यः । किमुक्तंभवति?-तस्मिन् देशे यत् त्रयाणां स्वलिङ्ग-गृहिलिङ्ग-कुलिङ्गानां मध्यात् पूजितं तेन लिङ्गेन द्रविणजातमुत्पादयन्ति वैद्यं वा प्रज्ञापयन्ति॥ द्वितीयपदे द्रविणजातमपि न दद्यात्, कथम् ? इत्याह[भा.१९७०] बिइयपदे कालगए, देसुट्ठाणे व बोहियादीसु असिवादी असईइव, ववहारऽहिरन्नगा समणा। वृ-द्वितीयपदे वैद्ये ग्लाने वा कालगते सति, देशस्य वा बोधिकादिभयेनोत्थाने-उद्वसने, अशिवादौवा सञ्जाते, 'असत्तायां वा' सर्वथैवालाभेऽर्थजातं वैद्यस्य न दद्यात् । व्यवहारे च समुपस्थिते ब्रुवते-अहिरण्यकाः श्रमणा भवन्तीति तावत् सर्वत्रापि सुप्रतीतम्, परं तथाप्येतेनारब्धैरस्माभिस्तदपि द्रविणजातं गवेषयितुमारब्धम्, ततो लोको ब्रवीति-न वर्तते शिष्टानां यतिभ्यो हिरण्यादि दातुम् । यत उक्तम् गृहस्थस्यान्नदानेन, वानप्रस्थस्य गोरसात् । यतीनां च हिरण्येन, दाता स्वर्गं न गच्छति॥इति । एवं व्यवहारो लभ्यते ॥ अथ कल्याणकपदं व्याख्यानयति[भा.१९७१] पउणम्मियपच्छित्तं, दिजइ कल्लाणगं दुवेण्हं पि । बूढे पायच्छित्ते,पविसंती मंडलिं दो वि ।। वृ-ग्लाने प्रगुणीभूते सति 'द्वयोरपि ग्लान-प्रतिचरवर्गयोः ‘कल्याणकं' प्रायश्चित्तं दीयते। इहैवमविशेषेणोक्तेऽपि ग्लानस्य पञ्चकल्याणकं प्रतिचरकाणां त्वेककल्याणकं दातव्यम्, आदेशान्तरेण वा द्वयोरपिपञ्चकल्याणकं मन्तव्यम्।आहच निशीथचूर्णिकृत्-आदेसन्तरेण वा दुण्ह विपंचकल्लाणं ति। ततो व्यढे प्रायश्चित्ते 'द्वावपि' ग्लान-प्रतिचरकवर्गौ भोजनादिमण्डली प्रविशतः॥ ___ अथोपसंहरन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532