Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५०६
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-आचार्यसूत्रार्थपौरुष्यौ द्वे अपि गच्छवासिनां दत्त्वा यथालन्दिकानांसमीपेगमनं करोति। गत्वा च तत्र तेषामर्थं कथयति । अथाचार्यो न शक्नोति तत्र गन्तुंततो यस्तेषां यथालन्दिकानां मध्येधारणाकुशलः-अवधारणाशक्तिमान्स क्षेत्रबहिरन्तरापल्लिकायाःप्रत्यासन्नेभूभागेसमायाति, तत्रच गत्वा आचार्यस्तस्यार्थं ददाति।सच श्रुतभक्तिहेतोराचार्याणां कृतिकर्म' वन्दनकं दत्त्वा चोलपट्टकद्वितीय औपग्रहिक्यां निषद्यायामुपविष्टश्चार्थं श्रृणोति॥
अथ "दोनि विदाउं गमनं" इत्यपवदन्नाह[भा.२०१८] अत्यं दो व अदाउं,वच्चइ वायावए व अन्नेणं ।
एवं ता उडुबद्धे, वासासु य काउमुवओगं ।। वृ-यद्याचार्यो द्वेअपिपौरुष्यौ दत्त्वा गन्तुंन शक्नोति ततोऽर्थमदत्त्वा, तथाप्यशक्तौ 'द्वावपि' सूत्रार्थावदत्त्वा व्रजति, अन्येनवाशिष्येणस्वशिष्यान् ‘वाचयति' वाचनांदापयति।अथाचार्यस्तत्र गन्तुमशक्तस्ततो यथालन्दिक एकः सूरिसमीपमायाति । एवं तावद् ऋतुबद्धे द्रष्टव्यम् ।
वर्षासुचशब्दः पुनरर्थे वर्षासु पुनरयं विशेषः- उपयोगं कृत्वा' 'किं वर्षं पतिष्यति न वा?' इति विमृश्य यदिजानाति पतिष्यति ततो नाचार्याणां समीपमायाति, अथ जानातिन पतिष्यति ततः समायाति॥
अथ गुरवस्तत्र गताः कथं समुशिन्ति? इत्याह[भा.२०१९] संघाडो मग्गेणं, भत्तं पानं च नेइ उ गुरूणं ।
अच्चुण्हं थेरा वा, तो अंतरपल्लिए एइ॥ वृ-'गुरूणां' यथालन्दिकसमीपमुपगतानां योग्यं भकतं पानं च गृहीत्वा सङ्घाटकः 'मार्गेण' पृष्ठतो गत्वा तत्र नयति । अथ यावता कालेन यथालन्दिकानामुपाश्रयं गुरवो व्रजन्ति तावता 'अत्युष्णम्' अतीवातपश्चटति स्थविरावा' वार्द्धकवयःप्राप्तास्तेआचार्यास्ततोऽन्तरपल्लिकायामेको यथालन्दिको धारणासम्पन्नः समायाति । तत्र गुरवोऽपि गत्वा तस्य वाचनांदत्वा सङ्घाटकेनानीतं भक्त-पानं समुद्दिश्य सन्ध्यासमये मूलक्षेत्रमायान्ति॥
अथान्तरपल्लिमपि गन्तुमसमर्थाः गुरवस्ततः किम् ? इत्याह[भा.२०२०] अंतर पडिवसभे वा, बिइयंतर बाहि वसभगामस्स ।
अन्नवसहीए तीए, अपरीभोगम्मि वाएइ॥ वृ-अन्तपल्लिका-प्रतिवृषभग्रामयोः ‘अन्तरा' अपान्तराले गत्वा यथालन्दिकं वाचयति। तत्र गन्तुमशक्तौ प्रतिवृषभग्रामे । अथ तत्रापि गन्तुं न शक्नोति ततः "बिइयंतर"त्ति द्वितीयंप्रतिवृषभ-मूलक्षेत्रयोरपान्तराललक्षणं यदन्तरंयत्र गत्वा वाचनांप्रयच्छति। तत्रापिगमनाशक्तौ 'वृषभग्रामस्य मूलक्षेत्रस्यबहिर्विजने प्रदेशे गत्वा वाचयति । यदि तत्रापि गन्तुंनप्रभविष्णुस्ततो मूलक्षेत्र एवान्यस्यांवसतौ।तत्रापि गन्तुमशक्तौ तस्यामेव मूलवसतावपरिभोग्येऽवकाशेवाचयति॥
तत्र चेयं सामाचारी[भा.२०२१] तस्स जई किइकम्मं, करिति सो पुन न तेसि पकरेइ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532