Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 513
________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ अपिशब्दो व्यादिसङ्ख्याकासु वसतिषु तिष्ठन्तः सुतरां भिक्षाचर्यायां पर्यतन्ते इति सूचनार्थ । यत्र त्वेकैव भिक्षाचर्या प्राप्यते तत्रैकस्यामपि भिक्षाचर्ययां पर्यटद्भिः एवमेव वसतिष्वपि यतना कर्त्तव्या ।। उक्तमपवादद्वारम् । तदुक्तौ च समर्थितं "पडिलेहण निक्खमणे" इति द्वारगाथा-द्वयम् ॥ ५१० सूत्रम् मू. (७) से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गंथाणं हेमंत-गिम्हासु दो मासे वत्थए । अंतो इक्कं मासं, बाहिं इक्कं मासं । अंतो वसमाणाणं अंतो भिक्खायरिया, बाहिं वसमाणाणं बाहिं भिक्खायरिया || वृ- अस्य सम्बन्धो व्याख्या च प्राग्वत् । नवरं 'सबाहिरिके' प्राकारबहिर्वर्तिगृहपद्धतिरूपया बाहिरिकया सहिते कल्पते निर्ग्रन्थानां हेमन्त-ग्रीष्मेषु द्वौ मासौ वस्तुम् । कथम् ? इत्याह- 'अन्तः’ प्राकाराभ्यन्तरे एकं मासम्, 'बहि:' बाहिरिकायामप्येकं मासम् । अन्तर्वसतामन्तर्भिक्षाचर्या, बहिर्वसतां बहिर्भिक्षाचर्येति ।। अथ भाष्यविस्तरः [भा. २०३४ ] एसेव कमो नियमा, सपरिक्खेवे सबाहिरीयम्मि । नवरं पुन नाणत्तं, अंतो मासो बहिं मासो ॥ कृ- 'एष एव ' प्रथमसूत्रोक्तः क्रमः सपरिक्षेपे सबाहिरिकेऽपि ग्रामादौ नियमाद् वक्तव्यः । नवरंपुनः 'नानात्वं' विशेषोऽयम्- 'अन्तः' प्राकाराभ्यन्तरे मासो बहिरपि मास इत्येवं मासद्वयं ऋतुबद्धे स्थातव्यम् ॥ [ भा. २०३५ ] पुत्रम्मि मासकप्पे, बहिया संकमण तं पि तह चेव । नवरं पुन नाणत्तं, तणेसु तह चेव फलएसु । वृ- आभ्यन्तरे मासकल्पे पूर्णे 'बहिः' बाहिरिकायां सङ्क्रमणं कर्त्तव्यम् । तदपि सङ्क्रमणं ‘तथैव’ पूर्वसूत्रवद्द्द्रष्टव्यम्। नवरंपुनरत्र नानात्वं तृणेषु तथा फलकेषु । तत्र यदि बाहिरिकायामेव तृण- फलकानि प्राप्यन्ते ततस्तत्रैव ग्रहीतव्यानि । अथ तत्र तानि न लभ्यन्ते ततोऽन्यं ग्रामं व्रजन्तु, अथ तत्राशिवादीनि कारणानि तत आभ्यन्तराण्येव तृण- फलकानि बाहिरिकायां नेतव्यानि ।। तत्र विधिमाह [भा.२०३६] अन्नउवस्सयगमणे, अनपुच्छा नत्थि कंचि नेयव्वं । जइ नेइ अनापुच्छा, तत्थ उ दोसा इमे होंति ॥ वृ- द्वितीये मासकल्पे बाहिरिकायामन्यमुपाश्रयं गच्छद्भिरनापृच्छया नास्त किञ्चित् तृणफलकादि नेतव्यम्। बाहिरिकायामन्यमुपाश्रयं गच्छद्भिरनापृच्छया नास्ति किञ्चित् तृण-फलकादि नेतव्यम् । यद्यनापृच्छया नयति ततस्तत्रेमे दोषा भवन्ति ॥ [भा. २०३७] ताइं तण - फलगाई, तेनाहडगाई अप्पणो वा वि । निजंतय - गहियाई, सिट्ठाइँ तहा असिट्ठाई ।। वृ-तानि तृण-फलकानि येन साधूनां दत्तानि तस्य स्तेनाहृतानि वा भवेयुः आत्मसम्बन्धीनि वा । तानि च प्रतिश्रयान्तरं नीयमानानि - प्राप्यमाणानि गृहीतानि वा- नीतानि सन्ति शिष्टानि अशिष्टानि वा भवेयुः ॥ शिष्टा ऽशिष्टपदद्वयं व्याख्यानयति [भा. २०३८ ] कस्सेते तण फलगा, सिट्ठे अमुकस्स तस्स गहणादी । निण्हवइ व सो भीओ, पच्चंगिर लोगमुड्डाहो ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532