Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १, मूलं -६, [भा. १९९२]
७ यथाच्छन्दाश्चैवाष्टमाः ८ ॥
एतेषु परित्यजतो यथासङ्ख्यमिदं प्रायश्चित्तम्
[भा. १९९३ ] चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥
वृ- चत्वारो लघुकाः १ चत्वारो गुरुकाः २ षण्मासा लघुकाः ३ षण्मासा गुरुकाः ४ छेदः ५ मूलं च तथा ६ अनवस्थाप्यश्च ७ पाराञ्चिकः ८ ।।
अथवा
[ भा. १९९४]
संविग्गा सिज्जातर, सावग तह दंसणे अहाभद्दे । दाने सड्डी परतित्थि य परतित्थिगी चेव ॥
वृ-‘संविग्नाः’प्रतीताः १ ‘शय्यातरः’प्रतिश्रयदाता २ ‘श्रावकः' गृहीतानुव्रतः ३ दर्शनसम्पन्नःअविरतसम्यग्दृष्टिः ४ ‘यथाभद्रकः ' शासनबहुमानवान् ५ 'दानश्राद्धिकः' दानरुचि ६ 'परतीर्थिकः' शाक्यादिपुरुषः ७ ‘परतीर्थिकी' शाक्यादिपाषण्डिनी ८ ॥
एतेषु परित्यजतो यथाक्रममिदं प्रायश्चित्तम्
[भा. १९९५ ] चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥
वृ-उक्तार्थाः ॥
अथ क्षेत्रतः प्रायश्चित्तमाह
[ भा. १९९६ ]
५०१
उवस्सय निवेसण साही, गाममज्झे य गामदारे य । उज्जाने सीमाए, सीममइक्कामइत्ताणं ॥
[भा. १९९७] चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्ठप्पो य पारंची ॥
वृ- क्षेत्रान्तरं सङ्क्रामन्नुपाश्रये ग्लानं परित्यज्य यदि गच्छति तदा चत्वारो लगुकाः । उपाश्रयान्निष्काश्य निवेशनं यावदानीय परिहरति चत्वारो गुरुकाः । साहिकायां षण्मासा लघवः । ग्राममध्ये षण्मासा गुरवः । ग्रामद्वारे च्छेदः । उद्याने मूलम् । ग्रामसीमनि परिष्ठापयति I अनवस्थाप्यम् । स्वग्रामसीमानमतिक्राम्य परित्यजन् पाराञ्चिक इति । यत एवमतो न परित्यजनीयः ॥
कियन्तं पुनः कालमवश्यं प्रतिचरणीयः ? उच्यते[भा. १९९८]
छम्मासे आयरिओ, गिलाण परियट्टई पयत्तेणं ।
जाहे न संथरेज्जा, कुलस्स उ निवेदणं कुज्जा ।।
वृ- येन स ग्लानः प्रव्राजितो यस्य वा उपसम्पदं प्रतिपन्नः स आचार्य सूत्रार्थपौरुषीप्रदानमपि परिहृत्य प्रयत्नेन षण्मासान् ग्लानं 'परिवर्त्तयति' प्रतिचरति । यदा षट्स्वपि मासेषु पूर्णेषु स ग्लानः 'न संस्तरेत्' न प्रगुणीभवेत्, यद्वा आचार्य एव स्वयमन्याभिर्गणचिन्ताभिर्न संस्तरेत् ततः 'कुलस्य निवेदनं कुर्यात् ' कुलसमवायं कृत्वा तस्य समर्पयेदित्यर्थः ॥
ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532