SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं -६, [भा. १९९२] ७ यथाच्छन्दाश्चैवाष्टमाः ८ ॥ एतेषु परित्यजतो यथासङ्ख्यमिदं प्रायश्चित्तम् [भा. १९९३ ] चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥ वृ- चत्वारो लघुकाः १ चत्वारो गुरुकाः २ षण्मासा लघुकाः ३ षण्मासा गुरुकाः ४ छेदः ५ मूलं च तथा ६ अनवस्थाप्यश्च ७ पाराञ्चिकः ८ ।। अथवा [ भा. १९९४] संविग्गा सिज्जातर, सावग तह दंसणे अहाभद्दे । दाने सड्डी परतित्थि य परतित्थिगी चेव ॥ वृ-‘संविग्नाः’प्रतीताः १ ‘शय्यातरः’प्रतिश्रयदाता २ ‘श्रावकः' गृहीतानुव्रतः ३ दर्शनसम्पन्नःअविरतसम्यग्दृष्टिः ४ ‘यथाभद्रकः ' शासनबहुमानवान् ५ 'दानश्राद्धिकः' दानरुचि ६ 'परतीर्थिकः' शाक्यादिपुरुषः ७ ‘परतीर्थिकी' शाक्यादिपाषण्डिनी ८ ॥ एतेषु परित्यजतो यथाक्रममिदं प्रायश्चित्तम् [भा. १९९५ ] चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥ वृ-उक्तार्थाः ॥ अथ क्षेत्रतः प्रायश्चित्तमाह [ भा. १९९६ ] ५०१ उवस्सय निवेसण साही, गाममज्झे य गामदारे य । उज्जाने सीमाए, सीममइक्कामइत्ताणं ॥ [भा. १९९७] चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्ठप्पो य पारंची ॥ वृ- क्षेत्रान्तरं सङ्क्रामन्नुपाश्रये ग्लानं परित्यज्य यदि गच्छति तदा चत्वारो लगुकाः । उपाश्रयान्निष्काश्य निवेशनं यावदानीय परिहरति चत्वारो गुरुकाः । साहिकायां षण्मासा लघवः । ग्राममध्ये षण्मासा गुरवः । ग्रामद्वारे च्छेदः । उद्याने मूलम् । ग्रामसीमनि परिष्ठापयति I अनवस्थाप्यम् । स्वग्रामसीमानमतिक्राम्य परित्यजन् पाराञ्चिक इति । यत एवमतो न परित्यजनीयः ॥ कियन्तं पुनः कालमवश्यं प्रतिचरणीयः ? उच्यते[भा. १९९८] छम्मासे आयरिओ, गिलाण परियट्टई पयत्तेणं । जाहे न संथरेज्जा, कुलस्स उ निवेदणं कुज्जा ।। वृ- येन स ग्लानः प्रव्राजितो यस्य वा उपसम्पदं प्रतिपन्नः स आचार्य सूत्रार्थपौरुषीप्रदानमपि परिहृत्य प्रयत्नेन षण्मासान् ग्लानं 'परिवर्त्तयति' प्रतिचरति । यदा षट्स्वपि मासेषु पूर्णेषु स ग्लानः 'न संस्तरेत्' न प्रगुणीभवेत्, यद्वा आचार्य एव स्वयमन्याभिर्गणचिन्ताभिर्न संस्तरेत् ततः 'कुलस्य निवेदनं कुर्यात् ' कुलसमवायं कृत्वा तस्य समर्पयेदित्यर्थः ॥ ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy