SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ५०० बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-उपेक्षायां ग्लानो भक्त-पानमौषधं वा अवभाषणेनोत्पाद्य स्थापयति न शक्नोम्यहं दिने दिने पर्यटितुंततश्चत्वारो गुरवः ।तेन परिवासितेन शीतलत्वाद् अनागाढपरितापनादीन्युपजायन्ते प्रायश्चित्तयोजना प्राग्वत् ।। [भा.१९८७]उवेहोभासण करणे, परितावण महय मुच्छ किच्छ कालगए। चत्तारिछच्च लहु-गुरु, छेदो मूलं तह दुगंच ॥ वृ- उपेक्षायां कृतायां यदि ग्लानोऽवभाष्य स्वयमेवौषधादिकं करोति गृहस्थैर्वा कारयति तदा चत्वारो गुरवः । स्वयंकुर्वतश्चिकित्साधनभिज्ञैर्गृहस्थैर्वा चिकित्सांकारयतोऽनागाढपरितापादीनि भवन्ति । शेषं प्राग्वत्।। [भा.१९८८] वेहानस ओहाणे, सलिंगपडिसेवणं निवारिते। गुरुगा अनिवारिते, चरिमं मूलं च जंजत्थ ॥ वृ-अप्रतिजागरितोग्लानोयदि निर्वेदनवैहायसंमरणमभ्युपगच्छतिततस्तेषामप्रतिजागरकाणां 'चरमं पाराश्चिकम् । अथ 'अवधावनम्' उप्रव्रजनं करोति ततो मूलम् । स्वलिङ्गस्थितो यद्यकल्प्यप्रतिसेवनां करोति ततश्चतुर्गुरुकाः । यदि तं तथा प्रतिसेवमानं निवारयति तदापि चतुर्गुरुकाः । अथ न निवारयति ततो यद् यत्र अप्राशुकेऽनेषणीये वा गृह्यमाणे प्रायश्चित्तं तत् तत्र प्राप्नोति॥ अथ निर्द्धर्मा येषु स्थानेषु ग्लानं त्यजेत् तान्याह[भा.१९८९] संविग्गा गीयत्थाऽसंविग्गा खलु तहेव गीयत्था । संविग्गमसंविग्गा, नवरं पुन ते अगीयत्था । [भा.१९९०] संविग्ग संजईओ, गीयत्था खलु तहेवऽगीयत्था । गीयत्थ अगीयत्था, नवरं पुन ता असंविग्गा ॥ वृ-संयताश्चतुर्दा, तद्यथा-संविग्ना गीतार्थाः १ असंविग्ना गीतार्था २ संविग्ना अगीतार्थाः ३असंविग्ना अगीतार्थाश्च ४ इति। संयत्योऽपिचतुर्विधाः, तद्यथा-संविग्नागीतार्था १ संविग्नाअगीतार्थाः २ असंविग्नाअगीतार्थाः ३ असंविग्ना अगीतार्थाश्च ४ इति । एतेष्वष्टसु स्थानेषु ग्लानं परित्यजतः प्रायश्चित्तमाह[भा.१९९१] चउरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य । छेदो मूलं च तहा, अनवट्ठप्पो य पारंची॥ वृ-प्रथमे स्थाने ग्लानंपरित्यजति चत्वारो लघुकाः। द्वितीये चत्वारोगुरुकाः।तृतीयेषण्मासा लघवः । चतुर्थे षण्मासा गुरवः । पञ्चमेच्छेदः । षष्ठे मूलम् । सप्तमेऽनवस्थाप्यः । अष्टमे पाराञ्चिको भवति॥ यदि वा[भा.१९९२] संविग्ग नीयवासी, कुसील ओसन्न तह य पासत्था। संसत्ता विंठाया, अहछंदा चेव अट्ठमगा। वृ-संविग्नाः १ नित्यवासिनः २ कुशीलाः ३अवसन्नाः ४ पार्श्वस्थाः ५ संसक्ताः ६वेण्ठकाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy