________________
४९९
उद्देशक : १, मूलं-६, [भा. १९८०] यूयममुम् ‘अतरन्तं' ग्लानं नयत, वयं युष्मदीयं नयाम इति ।।
एवं सङ्क्रामणां कृत्वा तत्रच ग्रामे नगरे वा नीत्वा सर्वप्रयत्लेन प्रतिचरणा विधेया । न पुनर्निर्धर्मतयेत्थं चिन्तनीयं भणनीयं वा[भा.१९८१] देवा हुने पसन्ना, जं मुक्का तस्स ने कयंतस्स ।
सो हु अइतिक्खरोसो, अहिगं वावारणासीलो॥ [भा.१९८२] तेनेव साइया मो, एयस्स वि जीवियम्मि संदेहो ।
पउणो विन एसऽम्हं, ते वि करिज्जा न व करिजा ॥ वृ-'हुः' अवधारणे, नूनं "ने" अस्माकं देवाः प्रसन्नाः यद् मुक्ता वयं तस्मात कृतान्तात्, गाथायां पञ्चम्यर्थे षष्ठी। इह कृतान्तशब्देन कृतं-निष्पादितं बह्वपि कार्यमन्तं नयतीति व्युत्पत्त्या कृतघ्न उच्यते, यद्वा कृतान्तः-यमस्तत्तुल्यत्वादसावपि कृतान्तः । अत एवाह- स हि 'अतितीक्ष्णरोषः' पुनःपुना रोषणशीलोदीर्घरोषी वेत्यर्थः। अधिकम् अत्यर्थं व्यापारमाशीलः' कृताकृतेषु कार्येषु भूयो भूयो नियुङ्क्ते। यद्वा तेनैव ग्लानेन 'सादिताः' खेदंप्रपिता वयमतोऽस्य कर्तुन शक्नुमः ।अथवा एतस्यापिजीविते सन्देहस्ततः किं निरर्थकमात्मानं परिक्लेशयामः?, प्रगुणीभूतोऽपि चैष नास्माकं भविष्य, तेऽप्यस्मदीयस्य कुर्युर्वा न वा, अतो वयमपि न कुर्महे । एवमादीनि ब्रुवाणानां तेषां निर्धर्माणामाचार्येण शिक्षा दातव्या न तूपेक्षा विधेया॥
यत आह[भा.१९८३] जो उ उवेहं कुजा, आयरिओ केणई पमादेणं ।
आरोवणा उ तस्सा, कायव्वा पुव्वनिद्दिठ्ठा ।। वृ-'यस्तु' यः पुनराचार्य केनापि प्रमादेन प्रमत्तः सत्रुपेक्षां कुर्यात् तस्यारोपणा पूर्वनिर्दिष्टा कर्तव्या, चत्वारो गुरव इत्यर्थः ।।
अथवेयमारोपणा[भा.१९८४] उवेहऽप्पत्तिय परितावण महय मुच्छ किच्छ कालगए।
चत्तारिछच्च लहु-गुरु, छेओ मूलं तह दुगंच ।। वृ-यो ग्लानस्योपेक्षां करोति तस्य चत्वारो गुरुकाः । उपेक्षायां कृतायां यद्यप्रीतिकं ग्लानस्य जायते ततोऽपि चत्वारो गुरवः ।अनागाढपरितापेचतुर्लघु ।आगाढपरितापेचतुर्गुरु।महादुःखे षडलघु।मूर्छायां षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छ्रोच्छ्वासे मूलम् । समवहतेऽनवस्थाप्यम्। कालगते पाराञ्चिकम्॥ [भा.१९८५] उवेहोभासण परितावण महय मुच्छ किच्छ कालगए।
चत्तारिछच्च लहु-गुरु, छेओ मूलं तह दुगंच॥ वृ-उपेक्षायां स ग्लानः स्वयमेव गत्वा गृहस्थानवभाषते चत्वारो लघवः । तस्य तत्र गच्छतः शीत-वाता-ऽऽतपैः परिश्रमेण वाऽनागाढपरितापनादीनि जायन्ते ततः प्रायश्चित्तमनन्तरगाथोक्तनीत्या द्रष्टव्यम् ॥ [भा.१९८६]उवेहोभासण ठवणे, परितावण महय मुच्छ किच्छ कालगए।
चत्तारिछच लहु-गुरु, छेदो मूलं तह दुगंच ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org