SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४९८ बृहत्कल्प-छेदसूत्रम् - १-१/६ तदर्थं ग्लानो ग्रामं नीयते । नगरे वा दुग्धादीनि दुर्लभद्रव्याणि क्षीणानि अतस्तेषामर्थाय आभ्यन्तराःनगरवास्तव्यसाधवो ग्लानमन्यत्र नयन्ति । 'इतरे पुनः ' ग्रामीणग्लानप्रतिचरका ग्लानस्य गोरसेन उपलक्षणत्वादन्येन तादृशेन श्लेष्मजनकद्रव्येण सिम्भः श्लेष्मा तस्योदयो जातः पित्तं वा क्षुभितमिति परिभाव्य तदुपशामकद्रव्याणामुत्पादनार्थं ग्लानं नगरं नयन्ति ॥ अथवा नागरग्लानचालनायामिदं कारणम्[भा. १९७७] परिहीनं तं दव्वं, चमढिज्जंतं तु अन्नमन्नेहिं । कालाइक्कंतेण य, वाही परिवड्ढिओ तस्स ॥ वृ-अन्यान्यग्लानसङ्घाटकैः स्थापनाकुलेषु चमढ्यमानं सत् परिक्षीणं 'तद्द्रव्यं' ग्लानप्रायोग्यम्, अथवा वैद्येन ग्लानस्योपदिष्टम्-सवारमेव भवता भोक्तव्यम्; तदानीं च नगरे न लभ्यते ततस्तेन कालातिक्रान्तेन तस्य व्याधि सुष्ठुतरं परिवर्द्धितः ॥ एवमादीनि कारणानि विज्ञाय ते परस्परं भणन्ति[भा. १९७८ ] उक्खिप्पऊ गिलाणो, अन्नं गामं वयं तु नेहामो । नेऊण अन्नगामं, सव्वपयत्तेण कायव्वं ॥ वृ- उत्क्षिप्यतां ग्लानः, यतस्तमन्यं ग्रामं वयं नेष्याम इत्येकवाक्यतया निश्चित्य सवारमेव तैर्निर्गन्तव्यम् । यतः प्रत्युषसि शीतलायां वेलायां नीयमानो ग्लानो न परिताप्यते । किञ्च प्रत्युषसि हता मार्गाः, परिहासहताः स्त्रियः मन्दबीजं हतं क्षेत्रं, हतं सैन्यमनायकम् ॥ ततो नीत्वा ग्लानमन्यं ग्रामंसर्वपरयलेन प्रतिचरणं कर्त्तव्यमिति । गतं चालनाद्वारम् । अथ सङ्क्रामणाद्वारमाह [भा. १९७९] सो निज्जई गिलाणो, अंतर सम्मेलणा य संछोभो । नेऊण अन्नगामं, सव्वपयत्तेण कायव्वं ॥ वृ- एमुत्क्षिप्य यं ग्रामं 'सः' नागरग्लानो नीयते ततो ग्रामादन्यो ग्लानो नगरमानीयमानोऽस्ति तेषामुभयेषामपि साधूनाम् 'अन्तरा' अपान्तराले सम्मिलना भवति ततः परस्परं वन्दनं कृत्वा निराबाधं पृष्टवा ग्लानयोः 'संछोभं' सङ्क्रामणं कुर्वन्ति, नागरा ग्रामीणग्लानं गृह्णन्ति ग्रामीणास्तु नागरग्लानमित्युक्तं भवति । नीत्वा चान्यं ग्रामं सर्वप्रयत्नेन प्रतिचरणमुभयैरपि कर्त्तव्यम् ॥ किं पुनरभिधाय ते ग्लानसङ्क्रामणां कुर्वन्ति ? इति उच्यते [भा. १९८० ] जारिस दव्वे इच्छह, अम्हे मुत्तूण ते न लब्भिहिह । इयरेवि भणतेवं, नियत्तिमो नेह अतरंते ॥ वृ- नागरा ग्रामेयकान् ब्रुवते- 'याध्शानि' तिक्त कटुकादीनि द्रव्याणि ग्लानार्थमिच्छत 'तानि' ताध्शानि अस्मान् 'मुक्त्वा' विना न लप्स्यध्वे । 'इतरेऽपि' ग्रामेयका नागरान् एवं भणन्तियूयमस्माभिर्विना दुग्धादीनि न लप्स्यध्वे । ततस्ते द्वयेऽपि परस्परमभिदधति-यद्येवं ततो निवर्त्तामहे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy