SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-६, [भा. १९७२] ४९७ [भा.१९७२] अनुयत्तणा उ एसा, दव्वे विज्जे य यन्निया दुविहा । इत्तो चालणदारं, वुच्छं संकामणं चुभओ॥ वृ-ग्लानप्रायोग्यद्रव्यविषयावैद्यविषयाचैषा द्विविधाऽवर्तना वर्णिता । इतऊर्ध्वंचालनाद्वारं सङ्क्रामणद्वारं च 'उभयतः' ग्लानद्वयविषयं वक्ष्ये ॥ [भा.१९७३] विज्जस्स व दव्वस्स व, अट्ठा इच्छंते होइ उक्खेवो । पंथो य पुव्वदिट्ठो, आरक्खिओ पुव्वभणिओ उ ।। वृ-वैद्यस्य वा 'द्रव्यस्य' औषधादिलक्षणस्य वा अर्थाय यदि ग्लान इच्छति ग्रामान्तरं गन्तुं तदा तस्य ‘उत्क्षेपः' चालना कर्तव्या। यदि रात्रौ गन्तव्यं भवति तदा पन्थाः पूर्वमेव दृष्टः कर्त्तव्यः। आरक्षिकश्च पूर्वमेव 'वयं रात्रौ ग्लानंगृहीत्वा गमिष्यामः, भवताचौरादिशङ्कयान ग्रहीतव्याः' इति भणितः कर्त्तव्य इति ।। अथास्या एव नियुक्तिगाथायाः पूर्वार्द्धं भावयति[भा.१९७४] चउपाया तेगिच्छा, इह विजा नत्थि न वि यदव्वाइं। अमुगत्थ अस्थि दोन्नि वि, जइ इच्छसि तत्थ वच्चामो ॥ वृ-क्वापि क्षेत्रे वैद्याऔषधानि वान सन्तिततोग्लानं प्रतिचरका ब्रुवीरन्-चिकित्साचतुष्पादा पूर्वोक्तनीत्या भवति, तत्रेह क्षेत्रे वैद्या न सन्ति नापि च 'द्रव्याणि' औषधादीनि अत्र सन्ति, अमुकत्र ग्रामे नगरे वा द्वे अपि विद्येते, अतो यदि त्वमिच्छसि ततस्तत्र व्रजाम इति ॥ ग्लानः प्रतिभणति[भा.१९७५] किं काहिइ मेविज्जो, भत्ताइ अकारयं इहं मझं। तुब्भे वि किलेसेमि य, अमुगत्थ महं हरह खिप्पं ।। वृ-आर्या ! यदि नाम अत्र वैद्यो भवति ततः किं ममासौ करिष्यति? उपलक्षणमिदम्, तेन यद्यौषधान्यपि भवेयुस्तान्यपि मे किं करिष्यन्ति ? यतो भक्तादिकमकारकं ममेह विद्यते, तस्मिश्चाकारके युष्मानपि मुधैव परिक्लेशयामि । यत उक्तम् भेषजेन विना व्याधि, पथ्यादेव निवर्तते। नतु पथ्यविहीनस्य, भेषजानां शतैरपि । ततो माममुकत्र ग्रामे नगरे वा क्षिप्रं 'हरत' नयत, येन मे तत्र भक्तादि कारकं स्यात् । एवंब्रुवाणोऽसौ ग्रामान्तरं प्रति चालयितव्यः॥ चालनायामेव कारणान्तरमाह[भा.१९७६] सानुप्पगभिक्खट्ठा, खीणे दुद्धाइयाण वा अट्ठा । अभितरेतरा पुन, गोरससिंभुदय-पित्तट्ठा । वृ-नागरं ग्लानं सानुप्रगे-प्रत्यूषवेलायां लभ्यते या भिक्षा सा सानुप्रगभिक्षा तदर्थं ग्रामं नयन्ति । नगरे हि प्राय उत्सूरे भिक्षा लभ्यते, तावतीं च वेलां प्रतीक्षमाणस्य ग्लानस्य कालांतिक्रान्तभोजित्वेन जाठराग्निमान्धमुपजायते, अतः सानुप्रगे-सवारमेवभिक्षायन्द्रामे लभ्यते [1832 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy