Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५०२
[भा. १९९९] संवच्छराणि तिन्नि य, कुलं पि परियट्टई पयत्तेणं । जाहे न संथरिज्जा, गणस्स उ निवेदणं कुज्जा ॥
वृ-त्रीन् संवत्सरान् कुलमपि प्रायोग्यभक्त पानीषधादिभि प्रयत्नेन परिवर्त्तयति । ततस्त्रिषु वर्षेषु पूर्णेषु यदा न संस्तरेत् तदा गणस्य निवेदनं कुर्यात् ॥
ततः
[भा. २००० ]
बृहत्कल्प-छेदसूत्रम् - १-१/६
संवच्छरं गणो वी, गिलाण परियट्टई पयत्तेणं । जाहे न संथरिजा, संघस्स निवेयणं कुज्जा ।।
वृ- एकं संवत्सरं यावद् गणोऽपि ग्लानं महता प्रयत्नेन परिवर्त्तयति । ततो यदा न संस्तरेत् ततः सङ्घस्य निवेदनं कुर्यात् । ततः सङ्घो यावज्जीवं तं सर्वप्रयत्नेन परिवर्त्तयति ॥ गाथात्रयोक्तमर्थमेकगाथया संगृह्य प्रतिपादयति
[भा. २००१] छम्मासे आयरिओ, कुलं तु संवच्छराइँ तिन्नि भवे । संवच्छरं गणो वी, जावज्जीवाय संघो उ ॥
वृ- व्याख्यातार्था ॥
एतच्चयो भक्तविवेकं कर्तुं न शक्नोति तमुद्दिश्य द्रष्टव्यम् । यस्तु भक्तविवेकं कर्त्तुं शक्नोति तेनाष्टादश मासान् यावत् प्रथमतश्चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसारे दुरापत्वात् । ततः परं यदि न प्रगुणीभवति ततो भक्तविवेकः कर्त्तव्य इति । आगाढे कारणजाते सञ्जाते सति ग्लानस्य वैयावृत्त्यं न कुर्यादपि परित्यजेद् वा ग्लानम् । किं पुनस्तत् कारणजातम् ? इति उच्यते[भा. २००२]
असिवे ओमोयरिए, रायहुट्टे भये व गेलने ।
एहि कारणेहिं, अहवा वि कुले गणे संघे ॥
वृ- अशिवे समुत्पन्ने सति ग्लानं परित्यजेद् न च प्रायश्चित्तमाप्नुयात् । एवम् अवमौदर्ये राजद्विष्टे 'भये वा' शरीरस्तेनसमुत्थे “गेलन्ने "त्ति सर्वो वा गच्छो ग्लानीभूत इत्यतः कस्य कः प्रतिचरणं करोतु ? एतैः कारणैः, अथवा कुलस्य गणस्य सङ्घस्य वा समर्पिते ग्लाने स्वयमकुर्वन्नपि शुद्धः । परित्यजने त्वियं यतना-अशिवे समुत्पन्ने देशान्तरं सङ्क्रामन् ग्लानमन्येषां प्रतिबन्धस्थितानां साधूनामर्पयति, तेषामभावे शय्यातरादीनां समीपे साधर्मिकस्थलीषु वा देवकुलिकेषु वा निक्षिपन्ति । एवमवमौदर्ये भये च द्रष्टव्यम् । राजद्विष्टे यद्येकस्य गच्छस्य प्रद्वेषमापन्नो राजा ततोऽन्येषां साधूनां समर्पयन्ति, अथ सर्वेषामपि प्रद्विष्टस्ततः श्रावकादिषु निक्षिप्य व्रजन्ति । उत्सर्गतः पुनरेतैरपि कारणैर्न नक्षिपन्ति किन्तु स्कन्धे न्यस्य वहन्तीति ॥
आह च
[भा. २००३]
एहि कारणेहिं, तह वि वहंती न चेव छडिंति । असहू वा उवगरणं, छड्डति न चेव उ गिलाणं ॥
वृ- एतैः कारणैर्यद्यपि ग्लानो निक्षेप्तुं कल्पते तथापि वहन्ति नैव परित्यज्यित । अथ 'असहिष्णवः' वोढुमसमर्था तत उपकरणं पिरत्यजन्ति नैव ग्लानम् ॥
[भा. २००४] अहवा वि सो भणेज्जा, छड्डेउ ममं तु गच्छहा तुब्भे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532