Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 496
________________ उद्देशक ः १, मूलं-६, [भा. १९५६] ४९३ पुवकय असइ दाने, ठवणा लिंगे य कल्लाणे ।। वृ-पूर्व-प्रथमंगृहिभिकाष्ठप्रक्षेपणादायुक्तः पूर्वायुक्तस्तस्मिन् ‘पूर्वायुक्ते' पूर्वतप्तेऽबचुल्लके प्रथमं तन्दुलानुपस्करोति । तदभावे पूर्वतप्तायां चुल्लयाम् । अथ चुल्लयपि पूर्वतप्तान प्राप्यते तत ईशानिदारूणि प्रक्षिप्योपस्करोति, तद्यथा-“सुक्खघणमज्झुसिरमविद्धि"त्ति शुष्काणिवार्द्राणि घनानि-वंशवद् न रन्ध्रयुक्तानि अशुषिराणि-अस्फुटितानि त्वचारहितानि वा अविद्धानघुणैरकृतच्छिद्राणि। ईशानि दारूणि वक्ष्यमाणप्रमाणोपेतानि पूर्वकृतानिच ग्रहीतव्यानि।अथ पूर्वकृतानि न सन्ति ततः स्वयमपि तेषां प्रमाणोपेतत्वं कर्त्तव्यम् । तथा याचमानस्य वैद्यस्य "दाने"त्ति अर्थजातदानं कर्तव्यम् । कथम् ? इति अत आह-“ठवण"त्ति शैक्षेण प्रव्रजता यद् निकुञादिषु द्रविणजातंस्थापितंतस्यदानं कर्त्तव्यम् । “लिङ्गि"त्तिस्वलिङ्गेन परलिङ्गेनगृहिलिङ्गेन वा अर्थजातमुत्पादनीयम्। “कल्लाणे"त्तिप्रुणीभूतस्य ग्लानस्यतातिचरकाणांच पञ्चक्याणकं दातव्यम्॥ अथ प्रक्षिप्यमाणदारूणां प्रमाणादिकमाह[भा.१९५७] हत्थद्धमत्त दारुग, निच्छल्लिय अघुनिया अहाकडगा। असईई सयंकरणं, अघट्टणोवक्खडमहाउं ।। वृ-हस्तार्द्ध-द्वादशाङ्गुलानितन्मात्राणि-तावप्रमाणदैध्योपैतानि 'निच्छल्लिकानि' छल्लीरहितानि 'अघुणितानि' घुणैरविद्धानिदारूणिभवन्ति।ईशानिच यथाकृतानि ग्रहीतव्यानि । यथाकृतानाम् 'असति' अभावे 'स्वयंकरणम्' आत्मनैव हस्तार्द्धप्रमाणानि क्रियन्ते छल्लिश्चापनीयते इत्यर्थः । उपस्कृतेच भक्ते उल्मुकानां घट्टना न कर्तव्या किन्तु तेऽग्निजीवा यथायुष्कमनुपाल्य स्वयमेव विध्यायन्ति॥ अथ पानकयतनामाहभा (१९५८] कंजिय-चाउलउदए, उसिणे संसट्टमेतरे चेव । हाण-पियणाइपाणग, पादासइवार दद्दरए । वृ-पानीयं याचतोवैद्यस्य काञ्जिकंदातव्यम्।यदि तद् नेच्छति ततः 'चाउलोदकं तन्दुलधावनम् । तदप्यनिच्छत्युष्णोकं वा संसृष्टपानकं वा । 'इतरं' ति प्राशुकमनिच्छति अप्राशुकमपि, यावत् कर्पूरवासितम् । एवं स्नान-पानादिषु कार्येषु पानकं तस्य दातव्यम् । तच्च प्रथमतः पात्रके स्थाप्यते । अथ नास्त्यतिरिक्तंपात्रकं न वाऽसौ तत्र स्थापयितुं ददाति ततो वारके स्थापयित्वा 'दर्दरयति' मुखे घनेन चीवरेण बध्नाति येन कीटिकादयः सत्त्वा नाभिपतन्ति ॥ भावितं भैक्षप-दम् । अथ “चड्डादि" त्ति पदं भावयति[भा.१९५९] चड्डग सराव कंसिय, तंबक रयए सुवन्न मणिसेले । भोत्तुं स एव धोवइ, अनिच्छि किढि खुड्ड वसभा वा ।। वृ.'चड्डुकं कमढकंतत्रासौ भोजनंकार्यते।अथतत्रनेच्छतिभोक्तुंततः शरावे। तत्रानिच्छति कांस्यभाजने ताम्रभाजने वा । तत्राप्यनिच्छति रजतस्थाले सुवर्णस्थाले मणिशैलमयेवा भाजने भोजयितव्यः । भुक्त्वा चासौ स्वयमेव तद्भाजनं धावति । अथ नेच्छति धावितुंततः 'किढी' स्थविरश्राविका सा प्रक्षालयति । तस्या अभावे क्षुल्लकाः । क्षुल्लकाणामभावे वृषभाः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532