Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 490
________________ उद्देशक : १, मूलं -६, [भा. १९३१] ४८७ तस्सऽप्पणो यथामं, नाउं भावं च अनुमन्ना ॥ वृ- तस्य ग्लानस्य 'कोऽपि' सज्ञातको वैद्यो भणेत्-निजकैरौषधैरहं ग्लानस्य रोमि क्रियाम्, प्रेषयत मदीये गृहे ग्लानमिति । ततो गुरुभि पृष्टेन ग्लानेन तस्यात्मनश्च 'स्थाम' वीर्यं तोलनीयम्किमेष वैद्य औषधानि पूरयितुं समर्थो न वा ?, अहमपि किं धृत्या बलवान् ? आहोश्चिदबलवान् ?, भावो नाम- किमेष धर्महेतोश्चिकित्सां चिकीर्षु स्वगृहे मामाकारयति ? उताहो उन्निष्क्रामणाभिप्रायेण ? इति । यद्यसौ गृहस्थ औषधपूरेण समर्थो यदि च स्वयं धृत्या बलवान् यदि च धर्महेतोः सज्ञातकस्तमाकारयति तत एवं तस्यात्मनश्च वीर्यं भावं च ज्ञात्वा गुरूणामनुज्ञां गृहीत्वा तत्र गन्तव्यं नान्यथेति ॥ अथासौ वैद्यो ब्रूयात्[भा. १९३२] जारिस गेलन्नं, जा य अवस्था उ वट्टए तस्स । अद्दद्दूण न सक्का, वोत्तुं तंवच्चिमो तत्थ ।। वृ-याशं युष्माभिट्ठ 'ग्लान्यं' ग्लानत्वमाख्यातं 'या च' याध्शी तस्यावस्था वर्त्तते तदेतददृष्ट्वा न शक्यते किमप्यौषधादि 'वक्तुम्' उपदेष्टुम्, ततः 'तत्रैव' ग्लानसमीपे व्रजाम इति ॥ एवं भणित्वा प्रतिश्रयमागतस्य तस्य यो विधि कर्त्तव्यस्तमभिधित्सुर्द्वारगाथामाह[भा. १९३३] अब्भुट्ठाणे आसन, दायन भद्दे भती य आहारो । गिलाणस्स य आहारे, नेयव्वो आनुपुव्वीए ॥ वृ- प्रथममभ्युत्थानविषयो विधिर्वक्तव्यः, तत आसनविषयः, ततो ग्लानस्य दर्शना यथा क्रियते, ततः “भद्दे” त्ति भद्रको वैद्यो यथा चिकित्सामेवमेव करोति, इतरस्य तु 'भृतिः' मज्जनादिकं चिकित्सावेतनम् आहारश्च यथा दातव्यः, ग्लानस्य च यथा आहारे यतना कर्त्तव्या तथा सर्वोऽपि विधिरानुपूर्व्या प्ररूप्यमाणो ज्ञातव्य इति समुदायार्थः ॥ अवयवार्थं तुप्रतिद्वारमभिधित्सुराह [ भा. १९३४ ] अब्भुट्ठाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा । मित्थत्त रायमादी, विराधना कुल गणे संघे ॥ वृ- आचार्यो यदि वैद्यस्यागतस्याभ्युत्थानं करोति तदा चत्वारोगुरुकाः । तत्राप्याज्ञादयो दोषा भवेयुः । तथा मिथ्यात्वं राजादयो व्रजेयुः, आदिग्रहणेन राजामात्यादिपरिग्रहः । ते हि चारपुरुषादिमुखादाचार्यं वैद्यस्याभ्युत्थितं श्रुत्वा स्वयं वा दृष्ट्वा चिन्ययेयुः - अमी श्रमणा अस्माकमभ्युत्थानं न कुर्वन्ति, अस्मद्भृत्यस्य तु नीचतरस्येत्यमभ्युत्तिष्ठन्ते, अहो ! दुर्दष्टधर्माणोऽमी इति । प्रद्विष्टा वा यत् तस्यैवाचार्यस्य यदि वा कुलस्य गणस्य सङ्घस्य वा विराधनां कुर्युः तन्निष्पन्नं प्रायश्चित्तम् ॥ [भा. १९३५ ] अनब्भुट्ठाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा । मिच्छत्त सो व अन्नो, गिलाणमादीविराधनया ॥ वृ- अथैतद्दोषभयादाचार्यो नोत्तिष्ठति तत्रापि चतुर्गुरुकाः । तत्राप्याज्ञादयो दोषा भवन्ति । 'सवा' वैद्योऽन्यो वा तं दृष्ट्वा मिथ्यात्वं गच्छेत्, यथा-अहो ! तपस्विनोऽप्यमी गर्वमुद्वहन्ति । प्रद्विष्टो वा वैद्यो ग्लानस्य क्रियां न कुर्याद् अपप्रयोगं वा कुर्यात्, एवं ग्लानविराधना । आदि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532