Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 491
________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ शब्दादाचार्यादेर्वा राजवल्लभतया विराधनां कुर्यात्, यद्वा 'युष्माकं देहेऽमुको व्याधिर्वर्तते तच्चिकित्सार्थममुकमौषधं भवतां दास्यते' इति भणित्वा विरुद्धौषधप्रदानेनाचार्यं विराधयेत् ॥ यत एते दोषा अतोऽयं विधि कर्त्तव्यः [ मा. १९३६ ] गीयत्थे आनयणं, पुवि उट्ठित्तु होइ अभिलावो । गिलाणस्स दावणं धोवणं च चुन्नाइगंधे य ॥ वृ- गीतार्थैर्वैद्यस्य प्रतिश्रये आनयनं कर्त्तव्यम् । यदि ते पञ्च जनास्ततः सङ्घाटकः प्रथमत एवागच्छति । अथ त्रयस्तत एकस्तन्मध्यात् प्रथममागच्छति, आगत्य च गुरूणां कथयति-वैद्य आगच्छतीति । ततो गुरवो द्वे आसने तत्र साधुभि स्थापयन्ति । स्वयं तु चङ्क्रमणलक्ष्येण 'पूर्वं ' वैद्यागमनात् प्रागेवोत्थायोर्द्धव स्थिता आसते । गीतार्थैश्च निवेदयितव्यम् 'एष वैद्यः' इति । आचार्यैश्च पूर्वमनालपतोऽपि वैद्यस्याभिलापः कर्त्तव्यः, पूर्वन्यस्तेन चासनेपोनिमन्त्रणीयः । तत आचार्यो वैद्यश्च द्वावप्यासने उपविशतः । ततो ग्लानस्य दर्शना कार्या । थम् ? इत्याह-ग्लानस्य यद् उपकरणे शरीरे वा अशुचिनोपलिप्तं तस्य 'धावनं' प्रक्षालनं कर्त्तव्यम्, चशब्दात् खेलकायिकी - संज्ञामात्रकाण्येकान्ते स्थापनीयानि, भूमिकाया उपलेपनं सम्मार्जनं च विधेयम्, तथापि यदि दुर्गन्धो भवति ततः पटवासादिचूर्णानि तत्र विकीर्यन्ते, आदिशब्दात् कर्पूरादिभि सुगन्धिद्रव्यैरशुभो गन्धोपनीयते, ततः प्रावृतशुक्लवासाः शुचीभूतो ग्लानो वैद्यस्य दर्श्यते । यदि तस्य किञ्चिद् व्रणादिकं पाटयितव्यं तदा तस्मिन् पाटिते सति उष्णोदकादि प्राशुकं हस्तधावनं दातव्यम् । अथोष्णोदकमसौ नेच्छथइ थथः पश्चात्कृतादयो मृत्तिकामुदकं वा प्रय्छन्ति ॥ गतमभ्युत्थाना- Sऽसन-दर्शनाद्वारत्रयम् । अथ भद्रकद्वारमाह [भा. १९३७] ४८८ चउपादा तेगिच्छा, को भेसजाइँ दाहिई तुब्भं । तहियं च पुव्वपत्ता, भणति पच्छाकडादऽम्हे ॥ वृ-वैद्यो ब्रूयात्- चिकित्सा चतुष्पादा भवति, चत्वारः पादाः चतुर्थांशरूपा यस्यां सा चतुष्पादा, तद्यथा- आतुरः प्रतिचरका वैद्यो भेषजानि । एतैश्चतुर्भिर्वैद्यशास्त्रोक्तगुणोपेतैश्चिकित्सा निष्पद्यते, अतः को नाम ग्लानस्य योग्यानि भेषजानि युष्माकं प्रदास्यति ? । ततस्तत्र दत्तसङ्क्रततया पूर्वप्राप्ताः पश्चात्कृतादयो भणन्ति वयं दास्याम इति । एवं तावद् भद्रको वैद्यः क्रियां करोति न चान्यत् किमपि स्पृहयति ॥ यस्तु प्रान्तस्तमुद्दिश्य भृतिद्वारमाहरद्वारं चाह [भा. १९३८] कोई मज्जनगविहिं, सयणं आहार उवहि केवडिए । गीयत्थेहि य जयणा, अजयण गुरुगा य आणाई ।। वृ- कश्चिद् वैद्यो ब्रूयात्-मज्जनं स्नानं तस्यविधि प्रकारः 'मज्जनविधि' तैलाभ्यङ्गनादिप्रक्रियापुरस्सरं स्नानमित्यर्थः, एतत् सर्वं मम को नाम दास्यति ? इति । ततः पश्चात्कृतादिभिरभ्युपगन्तव्यम्-वयं दास्यामः । तेषामभावे गीतार्थैर्यतनया सर्वमप्यभ्युपगन्त-व्यम् । यद्ययतनया अभ्युपगच्छन्ति प्रतिषेधयन्ति वा ततश्चत्वारो गुरुकाः आज्ञादयश्च दोषाः । एषा निर्युक्तिगाथा ।। अथैनामेव बिभावयिषुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532