________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
शब्दादाचार्यादेर्वा राजवल्लभतया विराधनां कुर्यात्, यद्वा 'युष्माकं देहेऽमुको व्याधिर्वर्तते तच्चिकित्सार्थममुकमौषधं भवतां दास्यते' इति भणित्वा विरुद्धौषधप्रदानेनाचार्यं विराधयेत् ॥ यत एते दोषा अतोऽयं विधि कर्त्तव्यः
[ मा. १९३६ ] गीयत्थे आनयणं, पुवि उट्ठित्तु होइ अभिलावो । गिलाणस्स दावणं धोवणं च चुन्नाइगंधे य ॥
वृ- गीतार्थैर्वैद्यस्य प्रतिश्रये आनयनं कर्त्तव्यम् । यदि ते पञ्च जनास्ततः सङ्घाटकः प्रथमत एवागच्छति । अथ त्रयस्तत एकस्तन्मध्यात् प्रथममागच्छति, आगत्य च गुरूणां कथयति-वैद्य आगच्छतीति । ततो गुरवो द्वे आसने तत्र साधुभि स्थापयन्ति । स्वयं तु चङ्क्रमणलक्ष्येण 'पूर्वं ' वैद्यागमनात् प्रागेवोत्थायोर्द्धव स्थिता आसते । गीतार्थैश्च निवेदयितव्यम् 'एष वैद्यः' इति । आचार्यैश्च पूर्वमनालपतोऽपि वैद्यस्याभिलापः कर्त्तव्यः, पूर्वन्यस्तेन चासनेपोनिमन्त्रणीयः । तत आचार्यो वैद्यश्च द्वावप्यासने उपविशतः । ततो ग्लानस्य दर्शना कार्या । थम् ? इत्याह-ग्लानस्य यद् उपकरणे शरीरे वा अशुचिनोपलिप्तं तस्य 'धावनं' प्रक्षालनं कर्त्तव्यम्, चशब्दात् खेलकायिकी - संज्ञामात्रकाण्येकान्ते स्थापनीयानि, भूमिकाया उपलेपनं सम्मार्जनं च विधेयम्, तथापि यदि दुर्गन्धो भवति ततः पटवासादिचूर्णानि तत्र विकीर्यन्ते, आदिशब्दात् कर्पूरादिभि सुगन्धिद्रव्यैरशुभो गन्धोपनीयते, ततः प्रावृतशुक्लवासाः शुचीभूतो ग्लानो वैद्यस्य दर्श्यते । यदि तस्य किञ्चिद् व्रणादिकं पाटयितव्यं तदा तस्मिन् पाटिते सति उष्णोदकादि प्राशुकं हस्तधावनं दातव्यम् । अथोष्णोदकमसौ नेच्छथइ थथः पश्चात्कृतादयो मृत्तिकामुदकं वा प्रय्छन्ति ॥ गतमभ्युत्थाना- Sऽसन-दर्शनाद्वारत्रयम् ।
अथ भद्रकद्वारमाह
[भा. १९३७]
४८८
चउपादा तेगिच्छा, को भेसजाइँ दाहिई तुब्भं । तहियं च पुव्वपत्ता, भणति पच्छाकडादऽम्हे ॥
वृ-वैद्यो ब्रूयात्- चिकित्सा चतुष्पादा भवति, चत्वारः पादाः चतुर्थांशरूपा यस्यां सा चतुष्पादा, तद्यथा- आतुरः प्रतिचरका वैद्यो भेषजानि । एतैश्चतुर्भिर्वैद्यशास्त्रोक्तगुणोपेतैश्चिकित्सा निष्पद्यते, अतः को नाम ग्लानस्य योग्यानि भेषजानि युष्माकं प्रदास्यति ? । ततस्तत्र दत्तसङ्क्रततया पूर्वप्राप्ताः पश्चात्कृतादयो भणन्ति वयं दास्याम इति । एवं तावद् भद्रको वैद्यः क्रियां करोति न चान्यत् किमपि स्पृहयति ॥
यस्तु प्रान्तस्तमुद्दिश्य भृतिद्वारमाहरद्वारं चाह
[भा. १९३८] कोई मज्जनगविहिं, सयणं आहार उवहि केवडिए । गीयत्थेहि य जयणा, अजयण गुरुगा य आणाई ।।
वृ- कश्चिद् वैद्यो ब्रूयात्-मज्जनं स्नानं तस्यविधि प्रकारः 'मज्जनविधि' तैलाभ्यङ्गनादिप्रक्रियापुरस्सरं स्नानमित्यर्थः, एतत् सर्वं मम को नाम दास्यति ? इति । ततः पश्चात्कृतादिभिरभ्युपगन्तव्यम्-वयं दास्यामः । तेषामभावे गीतार्थैर्यतनया सर्वमप्यभ्युपगन्त-व्यम् । यद्ययतनया अभ्युपगच्छन्ति प्रतिषेधयन्ति वा ततश्चत्वारो गुरुकाः आज्ञादयश्च दोषाः । एषा निर्युक्तिगाथा ।। अथैनामेव बिभावयिषुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org