________________
उद्देशक : १, मूलं -६, [भा. १९३९ ]
[भा. १९३९]
एयरस नाम दाहिह, को मज्जणगाइ दाहिई मज्झं । ते चेवणं भणंती, जं इच्छसि अम्हे तं सव्वं ॥
वृ- 'एतस्य' ग्लानस्य 'नाम' इति सम्भावनयां यद् यत् प्रायोग्यं भेषजादि तत् तत् सर्वं दास्यथ, मम पुनर्मज्जनकादिकं को दास्यति ? इत्युक्ते 'त एव' पश्चात्कृतादयः “णं” इति तं वैद्यं भणन्तियद् इच्छसि तत् सर्वं वयं दास्यम इत ॥
४८९
[भा. १९४०] जं एत्थ अम्हे सव्वं, पडिसेहे गुरुग दोस आणादी । एएस असईए, पडसे गुरुग आणादी ॥
वृ-ये ते पूर्वं पश्चात्कृतादयः प्रज्ञापितास्तैः 'यदत्र ग्लानस्य युष्माकं चोपयुज्यते तत् सर्वं वयं दास्यमः' इत्युक्ते सति यः साधुस्तानधिकरणभयात् प्रतिषेधयति तस्य चत्वारो गुरुका आज्ञादयश्च दोषाः । अथ न सन्ति पश्चात्कृतादयस्तत एतेषाम् 'असति' अभावे यो वैद्यं 'प्रतिषेधयति' 'न वयं भवतो मज्जनादि दास्यामः' इति तस्यापि चतुर्गुरुका आज्ञादयश्च दोषाः ।। पश्चात्कृतादिषु प्रतिषिध्यमानेषु यद् वैद्यश्चिन्तयति तदाह
[ भा. १९४१]
जुत्तं सयं न दाउउं, अन्ने दिंते वि ऊ निवारिंति । न करिज्ज तस्स किरियं, अवप्पओगं व से दिज्जा ॥
वृ-युक्तममीषां स्वयमदातुम् अपरिग्रहत्वात्, यत् पुनरन्यान् ददतो निवारयन्ति तन्न युज्यते । एवं प्रद्विष्टः सन् ‘तस्य’ ग्लानस्य क्रियां न कुर्यात्, 'अपप्रयोगं वा' विरुद्धौषधयोगं “से” तस्य 'दद्यात्' प्रयुञ्जीत, तस्मादन्यान् न निवारयेदिति ॥
[भा. १९४२ ] दाहामो त्ति य गुरुगा, तत्थ वि आणाइणो भवे दोसा । संका व सूयएहिं, हिय नट्ठे तेणए वा वि ॥
वृ- पश्चात्कृतादीनामभावे यदि साधवो भणन्ति 'वयमवश्यं ते सर्वमपि दास्यामः' इति तदा चत्वारो गुरुकाः, तत्राप्याज्ञादयो दोषा भवेयुः । तथा तस्यापि हिरण्यादौ केनचिद् ह्वतेऽन्यथा वा नष्टे सति शङ्क्रा भवति-अहिरण्य- सुवर्णा अप्यमी यद् दास्याम इति भणन्ति तद् नूनमेतैरेव गृहीतामिति । यद्वा 'सूचकैः' आरक्षिकादिभिस्तच्छुत्वा राजकुले गत्वा सूच्यते, यथा- स्तेनका एत श्रमणाः, येन वैद्यस्य हिरण्यादिकं दातव्यतया प्रतिपद्यन्ते । ततो ग्रहणा - SSकर्षणादयो दोषाः ॥
[भा. १९४३ ] पडिसेह अजयणाए, दोसा जयणा इमेहि ठाणेहिं । भिक्खण इड्डी बिइयपद रहिय जं भाणिहिसि जुत्तं ॥
वृ-पश्चात्कृतादीनामभावे यद्ययतनया 'प्रतिषेधयन्ति' 'प्रतिषेधयन्ति' 'न तव भृतिं वा भक्तं वा दास्यामः' इति ततश्चतुर्गुरुका आज्ञादयश्च दोषाः । तस्माद यतना एभि स्थानैः कर्त्तव्या“भिक्खण"त्ति भिक्षां कृत्वा वयं दास्यामः, “इड्डि "त्ति ऋद्धिमता वा निष्क्रामता यत् क्वापि निक्षिप्तं तद् गृहीत्वा दास्यामः, "बिइयपदे 'ति द्वितीयपदे वा' क्वचित् कारणजाते सञ्जाते सति यदर्थजातं गृहीतं तद् उद्धरितं दास्यामहे । “रहिए "त्ति पश्चात्कृतादिरहिते एवं भणन्ति“जं भाणिहिसि जुत्तं” यत् त्वं भणिष्यसि तद् यथाशक्ति करिष्यामः, यद् वा अस्माकं 'युक्तम्' उचितं तद् विधास्याम इति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org