________________
उद्देशक : १, मूलं -६, [भा. १९३१]
४८७
तस्सऽप्पणो यथामं, नाउं भावं च अनुमन्ना ॥
वृ- तस्य ग्लानस्य 'कोऽपि' सज्ञातको वैद्यो भणेत्-निजकैरौषधैरहं ग्लानस्य रोमि क्रियाम्, प्रेषयत मदीये गृहे ग्लानमिति । ततो गुरुभि पृष्टेन ग्लानेन तस्यात्मनश्च 'स्थाम' वीर्यं तोलनीयम्किमेष वैद्य औषधानि पूरयितुं समर्थो न वा ?, अहमपि किं धृत्या बलवान् ? आहोश्चिदबलवान् ?, भावो नाम- किमेष धर्महेतोश्चिकित्सां चिकीर्षु स्वगृहे मामाकारयति ? उताहो उन्निष्क्रामणाभिप्रायेण ? इति । यद्यसौ गृहस्थ औषधपूरेण समर्थो यदि च स्वयं धृत्या बलवान् यदि च धर्महेतोः सज्ञातकस्तमाकारयति तत एवं तस्यात्मनश्च वीर्यं भावं च ज्ञात्वा गुरूणामनुज्ञां गृहीत्वा तत्र गन्तव्यं नान्यथेति ॥
अथासौ वैद्यो ब्रूयात्[भा. १९३२]
जारिस गेलन्नं, जा य अवस्था उ वट्टए तस्स । अद्दद्दूण न सक्का, वोत्तुं तंवच्चिमो तत्थ ।।
वृ-याशं युष्माभिट्ठ 'ग्लान्यं' ग्लानत्वमाख्यातं 'या च' याध्शी तस्यावस्था वर्त्तते तदेतददृष्ट्वा न शक्यते किमप्यौषधादि 'वक्तुम्' उपदेष्टुम्, ततः 'तत्रैव' ग्लानसमीपे व्रजाम इति ॥ एवं भणित्वा प्रतिश्रयमागतस्य तस्य यो विधि कर्त्तव्यस्तमभिधित्सुर्द्वारगाथामाह[भा. १९३३] अब्भुट्ठाणे आसन, दायन भद्दे भती य आहारो ।
गिलाणस्स य आहारे, नेयव्वो आनुपुव्वीए ॥
वृ- प्रथममभ्युत्थानविषयो विधिर्वक्तव्यः, तत आसनविषयः, ततो ग्लानस्य दर्शना यथा क्रियते, ततः “भद्दे” त्ति भद्रको वैद्यो यथा चिकित्सामेवमेव करोति, इतरस्य तु 'भृतिः' मज्जनादिकं चिकित्सावेतनम् आहारश्च यथा दातव्यः, ग्लानस्य च यथा आहारे यतना कर्त्तव्या तथा सर्वोऽपि विधिरानुपूर्व्या प्ररूप्यमाणो ज्ञातव्य इति समुदायार्थः ॥
अवयवार्थं तुप्रतिद्वारमभिधित्सुराह
[ भा. १९३४ ] अब्भुट्ठाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा । मित्थत्त रायमादी, विराधना कुल गणे संघे ॥
वृ- आचार्यो यदि वैद्यस्यागतस्याभ्युत्थानं करोति तदा चत्वारोगुरुकाः । तत्राप्याज्ञादयो दोषा भवेयुः । तथा मिथ्यात्वं राजादयो व्रजेयुः, आदिग्रहणेन राजामात्यादिपरिग्रहः । ते हि चारपुरुषादिमुखादाचार्यं वैद्यस्याभ्युत्थितं श्रुत्वा स्वयं वा दृष्ट्वा चिन्ययेयुः - अमी श्रमणा अस्माकमभ्युत्थानं न कुर्वन्ति, अस्मद्भृत्यस्य तु नीचतरस्येत्यमभ्युत्तिष्ठन्ते, अहो ! दुर्दष्टधर्माणोऽमी इति । प्रद्विष्टा वा यत् तस्यैवाचार्यस्य यदि वा कुलस्य गणस्य सङ्घस्य वा विराधनां कुर्युः तन्निष्पन्नं प्रायश्चित्तम् ॥
[भा. १९३५ ]
अनब्भुट्ठाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा । मिच्छत्त सो व अन्नो, गिलाणमादीविराधनया ॥
वृ- अथैतद्दोषभयादाचार्यो नोत्तिष्ठति तत्रापि चतुर्गुरुकाः । तत्राप्याज्ञादयो दोषा भवन्ति । 'सवा' वैद्योऽन्यो वा तं दृष्ट्वा मिथ्यात्वं गच्छेत्, यथा-अहो ! तपस्विनोऽप्यमी गर्वमुद्वहन्ति । प्रद्विष्टो वा वैद्यो ग्लानस्य क्रियां न कुर्याद् अपप्रयोगं वा कुर्यात्, एवं ग्लानविराधना । आदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org