SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ शैशव-तारुण्यादिकं 'धातुंच' वातादीनां धातूनामन्यतमो यस्तस्योत्कटो वर्त्तते तं 'चः' समुच्चये 'आहारम्' अल्पभोजित्वादिलक्षणम् अग्निबलं- जाठरो वह्निरस्य मन्दः प्रबलो वा इत्येवं धृतिबलंसात्त्विकः कातरो वाऽयमित्येवं तथा "समुई " ति प्रकृति सा च या यस्य जन्मतः प्रभृति तां च कथयन्ति ॥ अथोपदेशद्वारमाह[भा. १९२८] ४८६ कलमोदनो य खीरं, ससक्करं तुलियाइयं दव्वे । भूमिघरेट्टग खेत्ते, काले अमुगीइ वेलाए ॥ [भा. १९२९] इच्छानुलोम भावे, न य तस्सऽहिया जहिं भवे विसया । अहवन दित्तादीसुं, पडिलेमा जा जहिं किरिया ।। वृ- अनन्तरोक्तंव्याधि-निदानादिकं श्रुत्वा वैद्यः स्वगृहस्थित एव द्रव्यादिभेदात् चतुर्विधमुपदेशं दद्यात् । तद्यथा-द्रव्यतः कलमशालिरोदनस्तथा क्षीरं च सशर्करमस्य दातव्यम्, तथा तूलिकायां शाययितव्यः, आदिशब्दाद् गोशीर्षचन्दनादिना विलेपनीय इत्यादि । क्षेत्रतो भूमिगृहे पक्केष्टकागृहे वाऽयं स्थापनीयः । कालतोऽमुकस्यां वेलायां प्रथमप्रहरादौ भोजनमयं कारणीयः । भावतो यदस्य स्वकीयाया इच्छाया अनुलोमम्- अनुकूलं तदेव कर्त्तव्यम्, नास्यज्ञा कोपनीयेति भावः, तथा यत्र 'तस्य' ग्लानस्य विषयाः 'अहिताः' अनिष्टाः क्रन्दित-विलपितादिरूपा गीतवादित्रगोचरा वा शब्दादयो न भवन्ति तत्र स्थापनीय इति शेषः । 'अहवण' त्ति अथवा 'हप्तादिषु' ६प्तचित्तप्रभृतिषु प्रतिलोमा क्रिया कर्त्तव्या । तत्र द्दप्तचित्तस्यापमानना, यथा अपमानादिनाऽपहृतचित्तस्य दर्पातिरेकज उन्मादः शाम्यति, क्षिप्तचित्तस्यापमानादिपोहृतचित्तस्य सम्मानना; यक्षाविष्टस्य तु यथायोगमपमानना सम्मानना वा विधेया; ज्वरादौ वा रोगे विशोषणादिका क्रिया या यत्र युज्यते सा तत्र विधेयेति ॥ अथ तुलनाद्वारमाह [भा. १९३०] अपडिहणंता सोउं, कयजोगाऽलंभि तस्स किं देमो । जहविभवा तेगिच्छा, जा लंभो ताव जूर्हति ॥ वृ-वैद्येन दीयमानमुपदेशम् 'अप्रतिघ्नन्तः' तद्वचनमविकुट्टयन्तः श्रुत्वाऽऽत्मानं तोलयन्तिकिमेतत् कलमशाल्यादिकं लप्स्यामहे न वा ? इति । यदि विज्ञायते 'ध्रुवं लप्स्यामहे' ततो न किमपि भणन्ति । अथ न तस्य ध्रुवो लाभः ततो भणन्ति यथा युष्माभिरुपदेशो दत्तस्तथा वयं योगं करिष्यामः, परं यदि कृतेऽपि योगे न लभामहे ततस्तस्य किं दद्मः ? ; अपि च वैद्यकशास्त्रे 'यथाविभवा' विभवानुरूपा चिकित्सा भणिता, यस्य याध्शी विभूतिस्तस्य तदनुरूपैरौषधैः पथ्यैश्च चिकित्सा क्रियते इत्यर्थः; अतो यूयमपि जानीथ, यथा- अस्माकं सर्वमपि याचितं लभ्यते नायाचितम्, अतो यदा कलमशाल्यादिकं याच्यमानमपि न प्राप्यते तदा किं तादव्यम् ? इति । एवं वैद्योपदेशमपसर्पयन्तस्तावद् “जूहंति "त्ति देशीशब्दत्वाद् आनयन्ति यावद् यस्य द्रव्यस्य कोद्रव - कूरादेर्भुवः प्रतिदिनभावी लाभो भवतीति ॥ अथ तुलनामेव प्रकारान्तरेणाह [भा. १९३१] नियएहि ओसहेहिं, कोइ भणेज्जा करेमऽहं किरियं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy